Book Title: Shastra Sandeshmala Part 22
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शब्दो नादः ध्वनिर्ध्वानं निर्घोषो निस्वनः स्वनः । निहाद आवो रावो, निनादो निनदोऽपि च प्रतिनादः प्रतिशब्दः, प्रतिध्वनिः प्रतिश्रुतिः | निदानं कारणं हेतुः कृत्यमर्थः प्रयोजनम् दैवज्ञो गणको ज्ञानी, मौहूर्तिको निमित्तवित् । सांवत्सरो ज्योतिषिको, ज्योतिर्वित् प्रश्नविच्च सः चिकित्सको भिषग्वैद्योऽगदङ्कारश्च रोगहत् । चिकित्सितज्ञो दोषज्ञ, आयुर्वेदस्तु वैद्यकम् ऋग्वेदश्च यजुर्वेदः, सामवेदोऽप्यथर्वणः । शिक्षा कल्पं व्याकरणं, छन्दो ज्योतिर्निरुक्तयः षडङ्गी वेदाश्चत्वारो, मीमांसान्वीक्षिकी तथा । धर्मशास्त्रं पुराणं च विद्या एताश्चतुर्दश
देवालयो देवगृहं, चैत्यमायतनं मठः । बिम्बं मूर्तिः प्रतिमा च, महः पर्व महोत्सवः जैना मीमांसका बौद्धाः, शैवा वैशेषिका अपि । नैयायिकाश्च मुख्यानि, दर्शनानीह सन्ति षट् मोक्षोऽपवर्गो निर्वाणं, मुक्तिर्निः श्रेयसं शिवः । महोदयोऽमृतं सिद्धिः, कैवल्यमपुनर्भवः
Acharya Shri Kailassagarsuri Gyanmandir
कुशलं मङ्गलं मद्रं, कल्याणं भावुकं शुभम् । क्षेमं भव्यं शिवं श्रेयः, शस्तं स्वः श्रेयसं स्मृतम् स्वागतं स्वस्ति भद्रं च, स्वास्थ्यं वार्तमनामयम् । सदा ददातु सानन्दं, चिदानन्दो जगत्प्रभुः
354
For Private And Personal Use Only
॥ ३२७ ॥
॥ ३२८ ॥
॥ ३२९ ॥
॥ ३३० ॥
।। ३३१ ।।
।। ३३२ ॥
॥ ३३३ ॥
॥ ३३४ ॥
॥ ३३५ ॥
॥ ३३६ ॥
॥ ३३७ ॥

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428