Book Title: Shastra Sandeshmala Part 22
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
धान्यं शस्यं च तद्भेदा, मुद्गगोधूमतण्डुला । अमत्रं भाजनं पात्रं, पण्यं भाण्डक्रयाणके वर्तनं जीवनं वृत्ति-र्वार्ता जीवश्च जीविका । मूलद्रव्यं परिपणो, नीवीलाभोऽधिकं फलम् सत्यापनं सत्यंकारो, मूल्यं वस्नोऽप्यवक्रयः । संपत्तिः श्रीर्विभूतिश्च, लक्ष्मीसंपत्समृद्धयः श्रीमान् समृद्धो लक्ष्मीवानिभ्य आढ्यो धनेश्वरः । आपद्विपद्विपत्तिश्च, दरिद्रो निःस्वनिर्धनौ कदर्यः कृपणो लोभी, बद्धमुष्टिर्मितंपचः । गोकुलं तु व्रजो घोषो, गोष्टं गोपालवल्लभः दुग्धं पयोऽमृतं क्षीरं, गोरसः क्षीरजं दधि । घृतमाज्यं हविः सर्पिः, नवनीतं तु प्रक्षणम् उदश्विन्मथितं तकं, आरनालं तु काञ्जिकम् । हविष्यान्नं च क्षैरेयी, परमान्नं च पायसम् घृतपक्वं तु पक्वान्नं, घृतपूरादिभेदवत् । सूपः स्यात्प्रहितं सूदोन्धः कूरं भक्तमोदनम् व्यञ्जनं तेमनं शाकः, पूपऽपूपौ च पोलिका । भोजनं जेमनाहारी, भक्षणं खादनाशने पिपासा तृट् तृषोदन्या, बुभुक्षा क्षुत् क्षुधा रुचिः । खण्डस्तु मधुधूलिः स्यात्, मत्स्यण्डी फाणितं वरा सितोपला शर्करा च, सिताथेक्षुरसो गुडः । प्रजा लोकाः प्रकृतयो, जनाः पौराश्च नागराः क्षेत्राजीवी कृषिकश्च कर्षकश्च कृषीवलः । क्षेत्रं वप्रश्च केदारो, हलं सीरच लाङ्गलम्
360
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ३८४ ॥
॥ ३८५ ॥
॥ ३८६ ॥
॥ ३८७ ।।
।। ३८८ ।।
।। ३८९ ॥
॥ ३९० ॥
॥ ३९१ ॥
॥ ३९२ ॥
॥ ३९३ ॥
॥ ३९४ ॥
॥ ३९५ ॥

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428