Book Title: Shastra Sandeshmala Part 22
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 380
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org * कुम्भकारः कुलालश्च, कुम्भस्तु कलसो घटः । स्वर्णकारः कलादश्च, मालाकारस्तु मालिकः क्षुरमर्दी दिवाकीर्तिर्नापि तान्तेऽवसाय्यपि । मुण्डनं भद्राकरणं, वपनं परिवापनम् वार्धकिः स्थपतिस्तक्षा, रथकारश्च काष्टभित् । अय: कारो लोहकारः शस्त्रमार्जोऽसिधावकः रङ्गाजीवश्चित्रकार, तन्तुवायस्तु सौचिकः । निर्णेजकस्तु रजकः, तन्तुवायः कुविन्दकः चाकिकस्तैलिकस्तैली, शिल्पिकारुककारवः । कत्यपालः सुराजीवी, शौण्डिको मण्डहारकः मदिरा वारुणी मद्यं सुरा कादम्बरी मधु । सुण्डा हालासवः सीधु-र्माध्वीकं कापिसायनम् आमिषं पिशितं मांस, पलं क्रव्यं च जाङ्गलम् । रुधिरं शोणितं रक्त-मस्त्रं क्षतजमप्यसृक् द्यूतकारोऽक्षवेदी चा-क्षधूर्तः कितवश्च सः । द्यूतं दुरोदरं चाक्ष-वती पण्या च कैतवम् पाशका देवना अक्षा, सारयोऽष्टापदं फलम् । स्तेन: पाटच्चरो दस्यु - चौरस्तस्करमोषकौ कैवर्तो धीवरो दासो, वागुरिकस्तु जालिकः । लुब्धको मृगयुर्व्याध-मृगयाखेटकौ समौ जीवान्तकः शाकुनिकः, वैतंसिकस्तु सौनिकः । पादुकाकृच् चर्मकार, उपानत् पादुपादुके चाण्डालस्तु दिवाकीर्ति-निषादश्च जनङ्गमः । मातङ्गः श्वपचोऽस्पर्योन्तेवासी प्लवबुक्कसौ , ३७१ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ ३९६ ॥ ॥ ३९७ ॥ ।। ३९८ ।। ॥ ३९९ ॥ || ४०० ॥ ॥ ४०१ ॥ ॥ ४०२ ॥ ॥ ४०३ ।। ॥ ४०४ ॥ ॥ ४०५ ॥ ॥ ४०६ ॥ ॥ ४०७ ॥

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428