________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
*
कुम्भकारः कुलालश्च, कुम्भस्तु कलसो घटः । स्वर्णकारः कलादश्च, मालाकारस्तु मालिकः क्षुरमर्दी दिवाकीर्तिर्नापि तान्तेऽवसाय्यपि । मुण्डनं भद्राकरणं, वपनं परिवापनम् वार्धकिः स्थपतिस्तक्षा, रथकारश्च काष्टभित् । अय: कारो लोहकारः शस्त्रमार्जोऽसिधावकः रङ्गाजीवश्चित्रकार, तन्तुवायस्तु सौचिकः । निर्णेजकस्तु रजकः, तन्तुवायः कुविन्दकः चाकिकस्तैलिकस्तैली, शिल्पिकारुककारवः । कत्यपालः सुराजीवी, शौण्डिको मण्डहारकः मदिरा वारुणी मद्यं सुरा कादम्बरी मधु । सुण्डा हालासवः सीधु-र्माध्वीकं कापिसायनम् आमिषं पिशितं मांस, पलं क्रव्यं च जाङ्गलम् । रुधिरं शोणितं रक्त-मस्त्रं क्षतजमप्यसृक् द्यूतकारोऽक्षवेदी चा-क्षधूर्तः कितवश्च सः । द्यूतं दुरोदरं चाक्ष-वती पण्या च कैतवम् पाशका देवना अक्षा, सारयोऽष्टापदं फलम् । स्तेन: पाटच्चरो दस्यु - चौरस्तस्करमोषकौ कैवर्तो धीवरो दासो, वागुरिकस्तु जालिकः । लुब्धको मृगयुर्व्याध-मृगयाखेटकौ समौ जीवान्तकः शाकुनिकः, वैतंसिकस्तु सौनिकः । पादुकाकृच् चर्मकार, उपानत् पादुपादुके चाण्डालस्तु दिवाकीर्ति-निषादश्च जनङ्गमः । मातङ्गः श्वपचोऽस्पर्योन्तेवासी प्लवबुक्कसौ
,
३७१
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३९६ ॥
॥ ३९७ ॥
।। ३९८ ।।
॥ ३९९ ॥
|| ४०० ॥
॥ ४०१ ॥
॥ ४०२ ॥
॥ ४०३ ।।
॥ ४०४ ॥
॥ ४०५ ॥
॥ ४०६ ॥
॥ ४०७ ॥