Book Title: Shastra Sandeshmala Part 22
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 399
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ख्यातकीर्तिरसकौ हयो वरः, ख्याति खल्वविकलं जयं तव । ख्यातिमन् नृप ! सुलालिकामिषैः, ख्यान्ति पण्डितजना इति स्फुटम् १४ नक्षमापतिततिप्रणाशक !, खाधिनाथ ! विचरंस्तुरङ्गमः । खं प्रयच्छति तवारिसन्ततेः, खं विनैव कुतुकं त्विदं महत् ॥ १५ ॥ ख्लावली छलति तावदुद्बलं, ख्लावलीव सकलं प्रजाबलम् । ख्लाकुला खलु मिलत्यहो ! न भूख्लापते ! तव हयः पुमानिव १६ ग्याङ्गजावितवराः सुवागरा, ग्यं यदीयमनिशं स्तुवन्त्यरम् । ग्यद्भुतोदितजय ! प्रदीप्यते, ग्यद्विषन् ! स तुरगो महीपते ! ॥ १७ ॥ ग्रस्तसङ्गररुजां सुभूभुजां, ग्रावराजसमधैर्यसंयुजाम् । ग्रासवन्मदकरोऽरिसम्पदा, ग्राममाशु हरतीश ! ते हयः ॥ १८ ॥ ग्लानतारहितपीनभूघनो, ग्लौलसत्किरणकोटितुल्यरुक् । ग्लायति प्रबलमाश्वशं यतो, ग्लौगुणेश ! नृप ! भाति गौः स ते ॥१९॥ ग्वः प्रदीप्यत इलापतेऽनिशं, ग्वावलीषु सबलोऽमलाङ्गरुक् । ग्वाधिनाथ ! वृषभप्रभोदयो, ग्वद्धताङ्ग ! वसुधापते ! तव ॥ २० ॥ नप्रदाभनिनदो नदन्नरं, घ्नातिदीप्तिततियुक् ककुद्युतः । घ्नोऽतिदुष्कृतततेविराजते, घ्नामणिप्रतिभ ! भूप ! ते वृषः ॥ २१ ॥ घ्याशयान्तरसिताङ्गदीधितिर्घ्यद्भुतेद्धजनचित्तहर्षदः । घ्यादिदेवविसराः स्तुवन्त्यरं, घ्यय॑रुग् यमसते वृषः सकः ॥२२॥ घ्रप्रभो ! गुणसुमङ्गलश्रिया, घ्रं वरं प्रविदधान इन्दति । घ्राणभूषणयुतो महातनुर्छानन ! क्षितिप! तावको वृषः ॥ २३ ॥ घ्लारोहसन्दोहफलीकृताज्ञ !, प्लौजोविराजी नृप ! राजते ते। घ्लोर्जस्व्यनड्वान् वृषभो वृषेभो, घ्लालीलसल्लक्षणलुब्धचेतः।। २४ । घ्वेतिनिस्वनमिषेण मेघजं, घ्वं जयंश्च विदधाति ते स्तुतिम् ।। ध्वीश्वर ! त्वदतनुस्फुरद्गुणध्वादनेन सुमना वृषोऽसकौ ॥ २५ ॥ 360 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428