Book Title: Shantinath Charitram
Author(s): Ajitbprabhacharya
Publisher: Unknown

View full book text
Previous | Next

Page 243
________________ 'चतुर्थः प्रस्तावः । घटचित्राssदिकरण शिल्पिनां लेखकस्य च । भवेत् कर्मसमुत्था या सा बुद्धिः कार्मिको स्फुटम् ॥ ६७ ॥ परिणामवशात् सर्ववस्तुनः कृतनिश्चया । २४३ स्यात् पारिणामिको बुद्धिः प्रतिबोधविधायिनी ॥ ६८ ॥ सर्वासामपि बुद्धीनां दृष्टान्ता आगमोदिताः । अनेके सन्ति ते ग्रन्थगौरवादिह नोदिताः ॥ ६६ ॥ free farsषा मतिज्ञानमिहोच्यते । सति यस्मिन् श्रुतमपि प्रादुर्भवति देहिनाम् ॥ ७० ॥ त्रिकालविषयं वस्तु येनाऽधीतेन विद्यते । तत् सिडमाटकामुख्यं श्रुतज्ञानं प्रकीर्तितम् ॥ ७१ ॥ कियन्तोऽपि भवा येन विज्ञायन्ते शरीरिणाम् । प्रोक्तं तदवधिज्ञानं सर्वदिक्षु कृतावधि ॥ ७२ ॥ भावा मनोगता येन ज्ञायन्ते संज्ञिदेहिनाम् । मनः पर्यवसंज्ञं तच्चतुर्थं ज्ञानमुच्यते ॥ ७३ ॥ सर्वत्र सर्वदा यस्य स्खलना न कथञ्चन । तद्भवे केवलज्ञानं पञ्चमं सिद्धिसौख्यकृत् ॥ ७४ ॥ अथोत्थाय जिनं नत्वा गृहे गत्वा च चक्रभृत् । राज्ये न्यवेशयत् पुत्रं 'स सहस्राऽऽयुधाभिधम् ॥ ७५ ॥ चतुःसहस्रे राजीनां तत्संख्यैः पार्थिवैस्तथा । सप्तपुत्रशतैः सार्द्धं स श्रामण्यं ततोऽग्रहीत् ॥ ७६ ॥ (१) ङ सहस्रायुधनामकम् ।

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288