Book Title: Shantinath Charitram
Author(s): Ajitbprabhacharya
Publisher: Unknown

View full book text
Previous | Next

Page 260
________________ २६० श्रीशान्तिनाथचरित्रे व्याघ्रात् त्रस्तं तमुद्दीक्ष्य वानरी सा मटित्यपि । प्रक्हिायात्मनः क्षोभं प्रसन्नवदनाऽभवत् ॥ ३० ॥ विखस्तोऽभून निषादोऽथ निषस्मश्च तदन्तिके । सा तस्य शिरसः केशान् व्यावणोद् बन्धुवासला ॥ ३१ ॥ तदुत्सङ्गे शिरः कृत्वा सुप्तोऽसौ विटपाश्रितः । वीक्ष्य निद्रायमाणं तं व्याघ्रः प्रोवाच वानरीम् ॥ ३२ ॥ भद्रे ! नोपवतिं वेत्ति सर्वकोऽपि महीतले । मनुष्यस्तु विशेषेणास्मिन्नर्थे श्रूयतां कथा ॥ ३३ ॥ एकस्मिन् सनिवेशेऽभूत् शिवस्वामीति स हिजः । स्वतीर्थवन्दनाहेतोनिरगानिजमन्दिरात् ॥ ३४ ॥ एकस्यां पतितोऽटव्यां तृष्णार्तोऽन्वेषयन् जलम् । पुराणकूपमद्राक्षौद् गूढं तरुलतादिभिः ॥ ३५ ॥ कत्वा दाम टणेस्तेन बड्वा च करपत्रकम् । कूपान्त: क्षेपयामास जला) सोऽजडाशयः ॥ ३६ ॥ रज्ज्वा तत्र विलग्यको निर्ययौ कूपकात् कपिः। सफलोऽयं ममारम्भ इति दध्यौ हिजोऽपि हि ॥ ३७॥ पुनहितीयवेलायां व्याघ्रसौ विनिर्गतौ। ब्राह्मणस्याङ्गियुम्मं ते प्रणेमुः प्राणदायिनः ॥ ३८ ॥ मतिमान् वानरस्तेषु जातिम्मरणपण्डितः । द्विजातिं ज्ञापयामास लिखित्वेत्यक्षरावलिम् ॥ ३८ ॥ वसामो मथुरोपान्ते वयं तत्र त्वयाऽपि हि । समागम्यं ततः किञ्चित् खागतं ते करिष्यते ॥ ४० ॥

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288