Book Title: Shantinath Charitram
Author(s): Ajitbprabhacharya
Publisher: Unknown
View full book text
________________
पञ्चमः प्रस्तावः ।
ममास्ति निर्मलज्ञानं तेन जानामि भूपते ! । योऽसो व्यापाद्यते विप्रस्तमवैहि निरागसम् ॥ ८२ ॥ अनेन किल कान्तारी पुरा कूपात् समुद्धृताः । . व्यालवानरशार्दूलाः कलादश्च चतुर्थकः ॥ ८३ ॥ सोऽयमत्रागतोऽपूजि वानरेण फलादिभिः । अस्य पूजाकते राजन् ! हतो व्याघ्रण ते सुतः ॥ ८४ ॥ व्याघ्रदत्तं तमादायालङ्कारमृजुधीरयम् । पाखें कृतोपकारस्थ कलादस्य समागतः ॥ ८५ ॥ कलादवचसा देव ! भवता हन्तुमादरात् । समादिष्टोऽथ दृष्टश्च भोगिना तेन सोऽध्वनि ॥ ८६ ॥ ततश्च तहिमोक्षार्थ दष्टा युष्मत्सुताऽमुना। यद्येष मुच्यते विप्रस्तदा जीवत्यसावपि ॥ ८७ ।। अत्रार्थे प्रत्ययः कश्चिदित्युक्ते भूभुजाऽथ सः । तत्रावतारयामास मान्त्रिकस्तं महोरगम् ॥ ८८ ॥ नेनाप्यनुमतं सर्वं यदुक्तं मन्त्रवादिना । संजातप्रत्ययो राजा ततश्चामोचयद् विजम् ॥ ८८ ॥ मुक्तं दृष्ट्वा हिजन्मानमुरगो गौरवाञ्चितम् । प्रत्याजहार गरलमात्मीयं दंशधावनात् ॥ ८० ॥ अथ सा राजतनया कौमुदीवोदयं ययौ। राजलोकस्तदा सर्वो बभूव कुमुदोपमः ॥ ८१ ॥ तस्य हिजन्मनश्चाग्रे कथयामास मान्त्रिकः । यत्ते दत्तं जीवदानं पवगेनामुना खलु ॥ १२ ॥
३४

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288