Book Title: Shantinath Charitram
Author(s): Ajitbprabhacharya
Publisher: Unknown

View full book text
Previous | Next

Page 274
________________ २७४ श्रीशान्तिनाथचरित्रे एवं गच्छति कालेऽस्याऽन्यदा हादशवार्षिकी। अनावृष्टिरभूत्तेन कूप तत्राम्बु निष्ठितम् ॥ ७५ ॥ तस्मिंश्च निष्ठिते सर्वे जलजीवाः क्षयं गताः। तदाऽऽहारस्य तस्याहेवृत्तिच्छेदोऽभवत्ततः ॥ ७६ ॥ गङ्गदत्तस्तु शालूरः पश्शेषकताशनः । जीवनन्येद्यरित्यूचे सर्पणायं रह:स्थितः ॥ ७७ ॥ भद्राहं क्षुधितोऽत्यन्तं त्वज्जातिकतभक्षणः । सा त्वनावृष्टिदोषेण विगता किं करोम्यहम् ? ॥ ७८ ॥ सोऽथ दध्यावयं क्रूरो निहन्तुं मां समीहते। रक्षामि स्वं ततोऽमुभात् कृत्वोपायं हि कञ्चन ॥ ७ ॥ इति ध्यात्वाऽवदत् स्वामिन् ! गत्वा सिन्धुहूदादिषु । निजजातिं विलोभ्याहमानेष्यामि कृते तव ॥ ८ ॥ धृत्वा चपटे चित्रलेखा नेष्यति तत्र माम् । ततस्ते प्रचुरा नित्यं प्राणयात्रा भविष्यति ॥ ८१ ॥ अथानेन समादिष्टा तदर्थं पक्षिणी सका। चञ्चा कृत्वा मुमोचैनं नीत्वा क्वापि महादे ॥ २ ॥ नीरमध्यप्रविष्टोऽसौ संजातः सुखभाजनम् । . . तदाशयमजानत्या भणितचित्रलेखया ॥ ३ ॥ एह्येहि भद्र ! शीघ्रं त्वं विधाय स्वसमीहितम् । कष्टेन वर्तते खामी सोऽथ तामित्यभाषत ॥ ८४ ॥ प्राख्याहि भद्रे ! प्रियदर्शनस्य न गङ्गदत्तः पुनरेति कूपम्।

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288