Book Title: Shantinath Charitram
Author(s): Ajitbprabhacharya
Publisher: Unknown

View full book text
Previous | Next

Page 282
________________ २५२ श्रीशान्तिनाथचरित्रे जातस्य समये तस्याप्यकारि जगतीभुजा। वसराज इति स्वप्नानुसारेणाभिधा वरा ॥ ६२ ॥ क्रमेण वर्धमानोऽसावष्टवर्षोऽखिलाः कलाः । अधोते स्म महाप्राज्ञः कलाचार्यस्य सविधौ ॥ ६३ ॥ अन्यदा ज्वरदाघादिरोगग्रस्तशरीरकः । पायुष्ययन्तकालत्वाबभूव पृथिवीपतिः ॥ ६४ ॥ दृष्ट्वा रोगादितं भूपं दुःखितोऽभूत् परिग्रहः । लोकाः सम्भूय सर्वेऽपि मन्त्रयाञ्चक्रिरे मिथः ॥ ६५ ॥ अयं हि वयसा ज्येष्ठो देवराजोऽस्ति यद्यपि । तथाऽपि हि गुणज्येष्ठो वत्सराजोऽस्त्वसौ नृपः ॥ ६६ ॥ जनवादममुं श्रुत्वा सहालोच्यैकमन्त्रिला । खोचके देवराजेन सैन्यं वाजिगजादिकम् ॥ ६७ ॥ तं नियुक्तकृतं श्रुत्वाऽऽरवं किमिति भूपतिः ? । पप्रच्छ कथयामास सर्व परिजनोऽस्य तत् ॥ ६८॥ ततश्च स जगादेवं व्याध्याधिभ्यां निपौडितः । अहो ! अयुक्तं विदधे कार्यमेतदि मन्त्रिणा ॥ ६८ ॥ वत्सराजकुमारोऽयं योग्यो राज्यस्य नापरः । परमेतदवस्थोऽहमशक्तः किं करोमि भोः ! १ ॥ ७० ॥ इत्युक्त्वा संस्थितः सोऽथ देवराजीऽभवनृपः । विना जनानुरागेगा राज्यं पालयति स्म सः ॥ ७१ ॥ चकार वत्सराजोऽपि प्रणिपातादिसत्क्रियाम् । पिवद्देवराजस्य स्वभावविनयान्वितः ॥ ७२ ॥

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288