Book Title: Shantinath Charitram
Author(s): Ajitbprabhacharya
Publisher: Unknown
View full book text
________________
२८६
श्रीशान्तिनाथचरित्रे
श्रुत्वैकत्र स्वरं राज्ञः पुत्राणां कुर्वतां श्रमम् । जगाम सोऽपि तत्राशु तदालोकनकौतुकी ॥ ४ ॥ तेषां मध्याद्यदा कोऽपि घाताद् भ्रश्येन्मनागपि । वत्सराजः समीपस्थस्तदा म्लानमुखोऽभवत् ॥ ५ ॥ घातो यदि पुन: स्थाने भवेत्त तोषनिर्भर: । प्रहृष्टवदनश्चामुं प्राशंसत् साधु साध्विति ॥ ६ ॥
"
तद् दृष्ट्वा तत्कलाचार्य्यो दध्यौ कोऽप्येष कोविदः । बालोऽपि शस्त्रकर्माणि य एवं वेत्ति निश्चितम् ॥ ७ ॥ एवं पृष्टोऽमुना सोऽथ कुतो वत्स ! त्वमागतः ? | जगाद वत्सराजोऽपि तात ! वैदेशिकोऽस्माहम् ॥ ८ ॥ स पुनः स्माह भो भद्र ! कृत्वा प्रहरणं करे । आत्मनः शस्त्रकौशल्यं त्वं मदग्रे प्रकाशय ॥ ८ ॥ विज्ञायावसरं सोऽपि तथा चक्रे महामतिः । तेषां योग्यं कुमाराणां तदा भक्तं समाययौ ॥ १० ॥ भोजितो 'वत्सराजोऽपि ततस्तैरात्मना सह । तत्कलाभ्याससन्तुष्टैर्गुणैः सर्वत्र पूज्यते ॥ ११ ॥ सोऽस्थात्तत्र दिनं सर्वं वत्सरूपाणि तानि तु । रक्षपालं विना गेहे सकालेऽपि समाययुः ॥ १२ ॥ एयुः सदिवसेऽप्यद्य किमेतानीति जल्पिते ? । श्रेष्ठिना विमलोवाच नाहं जानामि कारणम् ॥ १३ ॥
(५) ङ ठ - ल्यममदये ।

Page Navigation
1 ... 284 285 286 287 288