Book Title: Shantinath Charitram
Author(s): Ajitbprabhacharya
Publisher: Unknown

View full book text
Previous | Next

Page 283
________________ पञ्चमः प्रस्तावः । अनुरागपरं तस्मिन् विज्ञाय सकलं जनम् । दध्यौ मन्त्री वर्धमानो राज्यमेष हरिष्यति ॥ ७३ ॥ तदस्मिन्नहिते स्वस्य नोपेक्षा युज्यते खलु | कोमलोऽपि रिपुछेद्यो व्याधिवद् बुद्धिशालिना ॥ ७४ ॥ विचिन्त्येदमसौ मन्त्री ज्ञापयामास भूपतिम् । सोऽवदन्ननु भो मन्त्रिन् ! किमत्र क्रियतामिति ? ॥ ७५ ॥ मन्त्र्ाचे वत्सराजोऽयं तिष्ठन्नत्र न ते हितः । पुरात्रिर्वास्यतां देव ! तत्कनिष्ठोऽप्यनिष्टकृत् ॥ ७६ ॥ ततश्च देवराजेन भूभुजा भणितोऽनुजः । २८३ गन्तव्यं त्वयकाऽन्यत्र मुक्ता मे विषयं पुनः ॥ ७७ ॥ भ्रातुराज्ञां गृहीत्वा तां जनन्याः स न्यवेदयत् । तच्छ्रुत्वा दुःखिता साऽपि बभूवाश्रुमुखी क्षणात् ॥ ७८ ॥ ज्ञात्वा तां दुःखितां वत्सराजोऽवादोत्किमम्बिके ! ? | एवं खेदं करोषि त्वं देह्यादेशं व्रजाम्यहम् ॥ ७८ ॥ देवी प्रोवाच हे 'वत्स ! यद्येवं त्वयका सह । आगमिष्याम्यहमपि भगिन्या सहिता ध्रुवम् ॥ ८० ॥ वत्सराजोऽब्रवीन्मातः ! स्थेयमत्रैव हि त्वया । यदन्यदेशो विषमो देवराजोऽपि ते सुतः ॥ ८१ ॥ जनन्यूचे त्वयैवाहं सममेष्यामि वत्सक ! | नार्थो मे देवराजेन यस्तवाप्यपकारक्कृत् ॥ ८२ ॥ (१) ठ पुत्र ! |

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288