Book Title: Shantinath Charitram
Author(s): Ajitbprabhacharya
Publisher: Unknown

View full book text
Previous | Next

Page 279
________________ पञ्चमः प्रस्तावः । परोषहोपसर्गेभ्योऽभीतः संवेगवासितः । सोऽन्यदाऽष्टमभक्तेन तस्थौ प्रतिमया स्थिरः ॥ २८ ॥ अष्टाविंशतिलक्षाणां विमानानामधीशिना । अत्रान्तरे भक्तिवशादीशानेन्द्रेण जल्पितम् ॥ ३० ॥ माहात्मा निर्जिताऽशे षत्रैलोक्य ! गतकल्मष ! । भविष्यदर्हते तुभ्यं महासत्त्व ! नमो नमः ॥ ३१ ॥ तमाकर्ण्य समीपस्थाः पृच्छन्ति स्मेति तत्रियाः । स्वामिन् ! कस्य नमस्कारो युष्माभिर्विहितोऽधुना ? ॥ २२ ॥ सोऽवदत् शृणु त्रैलोक्यसुन्दरि ! क्षितिमण्डले । नगी पुण्डरीकियां राजा मेघरथाभिधः ॥ ३३ ॥ कृताष्टमतपःकर्मा स्थिरप्रतिमया स्थितः । वर्तमानः शुभध्याने मया भक्त्या नमस्कृतः ॥ ३४ ॥ ( युग्मम् ) एवंविधशुभध्यानाद धमें तल्लीनमानसम् । शक्ताञ्चालयितुं नैनं सेन्द्रा अपि दिवौकसः ॥ ३५ ॥ इत्याकर्ण्य सुरूपातिरूपे तद्दल्लभे उभे । २७८ क्षोभनार्थं नृपस्यास्य समीपे समुपेयतुः ॥ ३.६ ॥ उत्कृष्टरूपलावण्य कान्तियुक्त सविभ्रमे । सुशृङ्गारे पुरो भूत्वा तस्यैवं ते जजल्पतुः ॥ ३७ ॥ आवां देवाङ्गने स्वामिंस्त्वयि स्नेहविमोहिते । हायाते ततो वाच्छां पूरय त्वं प्रियावयोः ॥ ३८ ॥ विमुच्च त्रिदशाधीशं स्वाधीनं निजकं पतिम् । श्रवामिहागते लुब्धे त्वद्रूपगुणयौवनैः ॥ ३८ ॥

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288