Book Title: Shantinath Charitram
Author(s): Ajitbprabhacharya
Publisher: Unknown
View full book text
________________
२७६
श्रीशान्तिनाथचरित्रे
तुलारूढं नृपं दृष्ट्वा सकलोऽपि परिग्रहः । हाहाकारं प्रकुर्वाणः सविषादमदोऽवदत् ॥ ६ ॥ हा ! नाथ ! जीवितत्यागसाहसं किं करोष्यदः ? | एकस्य पक्षिणोऽस्यार्थे किमस्मांश्चावमन्यसे ? ॥ ८७ ॥ दमौत्पातिकं किञ्चित् प्रभो ! सम्भाव्यते यतः । भवेन्नैतादृशो भारः क्षुद्रकायस्य पक्षिणः ॥ ८८ ॥ परोपकारकरणरसिकः सरलाशयः ।
थोपयोगं भूपोऽसौ न ददौ ज्ञानवानपि ॥ ८८ ॥ इदं च चिन्तयामास धन्यास्ते धरिणीतले । निर्वाहयन्ति ये श्रेयः कार्यमङ्गीकृतं खलु ॥ ३०० ॥ सर्वोऽपि स्वार्थलुब्धोऽयं चलस्नेहः परिग्रहः । कृतघ्नमशुचेर्गेहं देहं चापि विनश्वरम् ॥ १ ॥ अपेक्षयाऽनयोः सोऽहं स्वार्थभ्रंशं करोमि किम् ? । स्वसन्धां पूरयिष्यामि यद्दा तद्दा भवत्वहो ! २ अत्नान्तरे चलत्स्वर्णकुण्डलालङ्गतश्रुतिः । किरोटहारकटकधारी कश्चित् सुरो वरः || ३ आविर्भूय जगादेवं धन्योऽसि त्वं महोपते ! । तव धीर ! दयावीर ! सफले जन्मजीविते ॥ ४ ॥ येनाद्य त्वगुणग्रामं शशाङ्क करनिर्मलम् । ईशानेन्द्रः सभामध्ये प्रशशंस सविस्मयः ॥ ५ ॥ अश्रद्दधानस्तमहं त्वत्परीक्षार्थमागतः ।
अधिष्ठित मया होतो पूर्वमत्सरिणौ खगौ ॥ ६ ॥

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288