Book Title: Shantinath Charitram
Author(s): Ajitbprabhacharya
Publisher: Unknown
View full book text
________________
पञ्चमः प्रस्तावः।
२७१ ततश्च वनखण्डान्तर्मूत धर्ममिवाग्रतः । ददर्शायं परिवृतं सूरिं भूरितपोधनैः ॥ ४५ ॥ नमस्कृत्य गुरोः पादावनुज्येष्ठं मुनीनपि । उपविश्य च गुर्वन्ते पप्रच्छेवं कृताञ्जलिः ॥ ४६ ॥ प्रभो ! सर्व विजानासि निर्मलज्ञानचक्षुषा। तेन पृच्छामि सा मृत्वा कां गतिं वानरी ययौ ? ॥ ४७ ॥ गुरुः प्रोवाच भूपाल ! मरालधवलाशया।
धर्मध्यानपरा धन्या सुरलोकमियाय सा ॥ ४८ ॥ यतः
तपःसंयमदानोपकारेषु निरत: सदा । गुरुवाक्यरुचिर्जीवो दयावांश्च दिवं गमी ॥ ४८ ॥ अपृच्छद्भूपतिर्भूयो भूयः पापपरायणः । जात्या च क्रियया चापि निषादाख्यः क्व यास्यति ? ॥५०॥ सूरिश्च कथयामास सर्वस्यापि स्फुटं यदः । यद्यस्य पापिन: स्थानं किमन्यवरकं विना ॥ ५१ ॥ जीवहिंसामृषावादस्तेनान्यस्त्रीनिषेवणैः । परिग्रहकषायैश्च विषयविषयोक्कतः ॥ ५२ ॥ कृतघ्नो निर्दयः पापी परद्रोहविधायकः । रौद्रध्यानपर: क्रूरो नरो नरकभाग् भवेत् ॥५३॥ (युग्मम्) प्रस्तावादपरगतिद्वयलक्षणमपि शृणु । पिशुनो गोमतिश्चैव मित्रे शाठ्यरत: सदा ॥ ५४ ॥
(१) ठ पिशुनो दुर्विनोत छ ।

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288