Book Title: Shantinath Charitram
Author(s): Ajitbprabhacharya
Publisher: Unknown
View full book text
________________
२६४
श्रीशान्तिनाथचरित्र
इदं पुनः पुनस्तेन पठ्यमानं निशम्य सः । तं च विज्ञाय तत्रस्थो भुजगोऽचिन्तयत्त्विदम् ॥ ७३ । वयं येनोवृताः कूपात् पुराऽरण्ये महात्मना । स एवाद्य महोदेवो व्यसने पतितो हहा ! ॥ ७४ ॥
उक्तञ्चउपकारिणि विश्रधे साधुजने यः समाचरति पापम् । तं जनमसत्यसन्धं भगवति ! वसुधे ! कथं वहसि ? ॥७॥ इयत्यपि गते सोऽहं कृत्वा किञ्चिविधानकम् । यास्याम्यस्योपकारस्थातृणं बुद्धिवशाद 'द्रुतम् ॥ ७ ॥ ततश्च वाटिकां गत्वा क्रीडन्तौं सममालिभिः । लतागुल्मान्तरीभूय सोऽदशद राजनन्दिनीम् ॥ ७७ ॥ . निराधारा लतेवैषा मूर्छिताङ्गयपतद्भुवि । सख्यस्तूर्णं तदाचख्युः पूत्कुर्वत्यो महीपतेः ॥ ७८ ॥ राजा च तत् समाकण्य स्फूर्जथुप्रतिमं वचः । महाशोकाकुल: काममाबाधाविधुरोऽवदत् ॥ ७ ॥ यावबैकस्य दुःखस्य पारमासाद्यते मया । द्वितीयं दौकितं तावच्छिद्रेनों भवन्त्यहो ! ॥ ८० ॥ मान्त्रिकास्तान्त्रिकाश्चैव समाइता महीभुजा। चिकित्सा च समारब्धा तत्रैको मान्त्रिकोऽवदत् ॥ ८१ ॥
(१) ठ धुवम् । (२) द महाशोकासमाबाधाविधुरो नवरोऽवदत् ।

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288