Book Title: Shantinath Charitram
Author(s): Ajitbprabhacharya
Publisher: Unknown

View full book text
Previous | Next

Page 262
________________ श्रीशान्तिनाथचरित्रे कृतप्रणामं दीर्घायुभवेत्याशौगिरा स तम् । तुष्टस्तुष्टाव किं कोऽपि नोपकारेण तुष्यति ? ॥ ५२ ॥ सतश्च ब्राह्मणो नत्वा मथुरायां जनार्दनम् । पृच्छन् पृच्छन् पुरोमध्ये स्वर्णकारगृहं ययौ ॥ ५३ ॥ सलोभो लोलुपो दूरादीषद् दृश्याऽवलोक्य तम् । अधोदृष्टिस्तथैवाऽस्थाद् रचयन् भूषणादिकम् ॥ ५४ ॥ ब्राह्मणः स्माह भोः ! किं नु नाडिन्धम ! न वेसि माम् ? । सम्यग नाहं विजानामौत्युक्त तेनावदत् पुनः ॥ ५५ ॥ येन त्वमटवीमध्ये पुरा कूपात् समुद्धृतः । सोऽस्मि हिजो महाभागागत: प्राघुणिकस्तव ॥ ५६ ॥ ततोऽसावुपविष्टः सन्नीषनमो ननाम तम् । ढोकयित्वाऽऽसनं किं ते करोमोति जगाद च ? ॥ ५७ ॥ भूषणं दर्शयित्वाऽथ विप्रः प्रोवाच मुष्टिकम् । दक्षिणायामिदं लब्ध मया क्वापि कुतोऽपि हि ॥ ५८ ॥ अस्य मूल्यविधौ धौमांस्त्वमेवासि महाशय ! । तगृहीत्वा यथायोग्यं मूख्यं भव्यं प्रयच्छ मे ॥ ५८ ॥ इति तस्यापयित्वा तबद्यां स्नातुं ययौ हिजः । शुश्राव स्वर्णकारश्च पटहोहोषणामिमाम् ॥ ६ ॥ हत्वाऽद्य राजतनयं केनाम्यात्तं विभूषणम् । यस्तं वेत्ति स आख्यातु वध्योऽसौ भूपतेर्यतः ॥ ६१ ॥ इत्याकर्ण्य कलादोऽपि वितर्काऽऽकुलितोऽभवत् । मयैव घटितं होतदिति सम्यग् विवेद च ॥ ६२ ॥

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288