Book Title: Sagar Dharmamrutam
Author(s): Ashadhar, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 181
________________ १६६ सागारधर्मामृते vvvvvvvvvvvvvvvvv.in क्षालिते जलादिना निर्मलीकृते वस्त्रे परिधानोत्तरीये युनक्ति स्वांगे सम्बनातीति धौतवस्त्रयुक् ॥ २१ ॥ जिनस्नपनाद्युपास्तिविधिमाह-- आश्रुत्य स्नपनं विशोध्य तदिलां पीठ्यां चतुष्कुम्भयुक् कोणायां सकुशश्रियां जिनपतिं न्यस्यान्तमाप्येष्टदिक् । नीराज्याम्बुरसाज्यदुग्धदाधिभिः सिक्त्वा कृतोद्वर्तनं सिक्तं कुम्भजलश्च गन्धसलिलैः सम्पूज्य नुत्वा स्मरेत् ।। टीका-स्मरेत् यथाशक्ति जपेत् ध्यायेत् । कोऽसौ, माध्याह्निकक्रियाकल्पोद्यतः श्रावकः । कं, जिनपति जिनेन्द्रं । किं कृत्वा, नुत्वा नित्यवन्दनादि. विधिना वन्दित्वा । किं कृत्वा, सम्पूज्य जलादिभिरष्टाभिः सम्यगर्चयित्वा । किंविशिष्टं सन्तं, सिक्तमभिषिक्तं । कैः , कुम्भजलैः पूर्वस्थापितकलशाम्भोभिः । तथा गन्धसलिलैः सुरभिद्रव्यमिश्रोदकैः । कथं कृत्वा, कृतोद्वर्तनं एलादिचूर्णकरककषायैरुद्वर्त्य कृतनन्द्यावर्ताद्यवतारणं । किं कृत्वा, सिक्त्वा अभिषिच्य । कैः, अम्बुरसाज्यदुग्धदधिभिः अम्बूनि तीर्थोदकानि,रसा इक्षुद्राक्षाम्रादिनिर्यासाः, आज्यानि हैयङ्गवीनादिघृतानि, दुग्धानि गव्यादिक्षीराणि, दधीनि माहिषादीनि, अम्बूनि च रसाश्च आज्यानि च दुग्धानि च दधीनि चाम्बुरसादीनि पञ्च स्नानीयद्रवद्रव्याणि तैः क्रमेण जिनपतिमभिषिच्येति संबंधः । किं कृत्वा, नीराज्य पूजापुरःसरं मृत्सागोमयभूतिपि. ण्डदूवादर्भपुष्पाक्षतसचन्दनोदकैर्नीराजनं प्रापय्य । कथं यथा भवति, इष्टदिक् इष्टा यज्ञांशं प्रापिता जिनयज्ञमभिवर्द्धयन्तो वाऽनुमोदिता दिशस्त. स्था दिक्पाला दशेन्द्रादयो यत्र नीराजनकर्मणि तदिष्टदिक । अथवा इष्टाः दिशो येन सोऽयमिष्टदिग्यष्टा । किं कृत्वा, न्यस्य स्थापयित्वा । कस्यांपीठ्यां स्नपनपीठस्योपरि । किविशिष्टायां, चतुष्कुंभयुक्कोणायां चत्वारः कुंभयुजः पूर्णकलशोपेताः कोणा यस्याः सा चतुष्कुंभयुक्कोणा तस्यां । पुनः किंविशिष्टायां, सकुशश्रियां दर्भेश्चन्दननिर्मितश्रीकाराक्षरेण च सहितायां । श्रियामित्युपलक्षणं तेन व्हीकारोऽपि लेख्यः । अन्ये तु अक्षतनिर्मितं श्रीकारमेवाहुः । तदुक्तं । " निस्तुषनिर्बणनिर्मलजलाशालीयतण्डुलालिखिते ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268