Book Title: Sagar Dharmamrutam
Author(s): Ashadhar, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 234
________________ अष्टमोध्यायः । निदानमस्मात्तपसः सुदुश्चराजन्मान्तरे इन्द्रश्चक्रवर्ती धरणेन्द्रो वा स्यामहमित्येवमाद्यनागताभ्युदयाकांक्षा ॥ ४५ ॥ एवं संस्तरारूढस्य क्षपकस्य निर्यापकाचार्य एतत्कृत्वेदं कुर्यादित्याह यतीनियुज्य तत्कृत्ये यथा गुणवत्तमान् । मूरिस्तं भूरि सँस्कुर्यात् स ह्यार्याणां महाक्रतुः ॥४६॥' टीका-संस्कुर्यात् रत्नत्रयसंस्कारयुतं कुर्यात् । कोऽसौ, सूरिः । कं, तं क्षपकं । कथं, भूरि बहु । किं कृत्वा, नियुज्य अधिकृत्य । कान् , यतीन् साधून् । क, तत्कृत्ये आराधकस्यामर्शनादिशरीरकार्ये विकथानिवारणे धर्मकथायां भक्तपानतल्पशोधनमलोत्सर्जनादौ च । कथं, यथार्ह यथायोग्यं । किंविशिष्टान्, गुणवत्तमान् मोक्षकारणगुणातिशयशालिनः । हि यस्मात् क्षपकसमाधिसाधनविधिरार्याणां यतीनां महाक्रतुः परमयज्ञः स्यात् ॥ ४६ । क्षपकस्याहारविशेषप्रकाशनात् भोजनासक्तिनिषेधार्थमाह योग्यं विचित्रमाहारं प्रकाश्येष्टं तमाशयेत् ।। तत्रासजन्तमज्ञानाज्ज्ञानाख्यानैर्निवतयेत् ॥ ४७ ॥ टीका-आशयेोजयेत्सूरिः । कं, क्षपकं । कं, इष्टं किंचित्सर्वं वा क्षपके. णाकांक्ष्यमाणमाहारं । किं कृत्वा, प्रकाश्य दर्शयित्वा कमाहारं । किंविशिष्टं, योग्यं कल्प्यं । पुनः किंविशिष्टं, विचित्रं नानाप्रकारं कश्चिद्धि भोज्यविशेषान् दृष्ट्वा तीरं प्राप्तस्य किं ममैभिरिति प्राप्तवैराग्यः संवेगपरो भवति । कश्चिञ्च किमपि भुक्त्वा अपरश्च सर्व भक्त्वा तथा भवति । कश्चित्तु तानास्वाद्य तद्रसासक्तिपरो भवति, चित्रत्वान्मोहनीयकर्मविलासानां । तत्र चेष्टतया भोज्यमाने भोजने अज्ञानात्तत्त्वानवबोधादासजन्तमासक्तिं कुर्वन्तं । क्षपकं निवर्तयेत् ततो विरमयेत्सूरिः । कैानाख्यानैर्बोधप्रचोदकप्रसिद्धोपाख्यानैः॥ ४७ ॥ नवभिः श्लोकैराहारावशेषगृद्धिप्रतिषेधपुरःसरं तत्परिहारक्रममाह भो निर्जिताक्ष विज्ञातपरमार्थ महायशः । किमद्य प्रतिभान्तीमे पुद्गलाः स्वहितास्तव ॥४८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268