Book Title: Sagar Dharmamrutam
Author(s): Ashadhar, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
२१८
सागारधर्मामृते
टीका - भावयेद्भूयो भूयो मनसि प्रणिदध्यात् । कोऽसौ निश्चेलस्त्यक्तसमस्तवस्त्रादिपरिग्रहः । किं तन्महाव्रतं । किं कृत्वा, आरोग्य निर्यापकाचार्यवचनेनात्मनि स्थापयित्वा । कया, भक्त्या पंचतय्या हिंसादिविरत्या, पंचतय्या समित्या, त्रितय्या च गुहया, व्रतसमितिगुप्तिभिस्त्रयोदशप्रकारं चारिमात्मनि ब्यवस्थाप्य । किं कृत्वा, समर्प्य आयत्तं कृत्वा । कं, स्वमात्मानं । कस्मिन्, निर्यापके संसारान्निर्यान्तं क्षपकं प्रयोजयतीति निर्यापकः षट्त्रिंशगुणोपेतो धर्माचार्यस्तस्मिन् । कया, भक्त्या शुभवृत्त्या | भक्त्येत्यस्य संन्दशकन्यायेनोभयत्र संबंधः । अन्यस्तु सचेलः पुनस्तन्महाव्रतं भावयेत् ! किंविशिष्टमनारोपितमेव सग्रन्थस्य तदारोपणेऽनधिकारात् ॥ ४४ ॥ अतिचारपञ्चकपरिहारेण सल्लेखनाविधिना संस्तरस्थस्य प्रवृत्तिमुपदिशतिजीवितमरणाशंसे सुहृदनुरागं सुखानुबन्धमजन् ।
स निधानं सँस्तरगश्वरेच्च सल्लेखनाविधिना ।। ४५ ।। टीका- न केवलमारोपितमनारोपितं वा महाव्रतं संस्तरगो भावयेच्चरेच्च चेष्टेत । केन, सल्लेखनाविधिना जन्ममृत्युजरातङ्का इत्यादिना प्रबन्धेन प्रागुतेन । किं कुर्वन्, अजन् क्षिपन् निराकुर्वन्नित्यर्थः । के, जीवितमरणाशंसे जीविताकांक्षा मरणाकांक्षा च । तथा सुहृदनुरागं मित्रानुरागं । तथा सुखानुबन्धं । किंविशिष्टं सनिदानं निदानेन सह । पंचमं निदानमप्यजन्नित्यर्थः । इतो विशेषेणैषामर्थः प्रकाश्यते । तत्र जीविताशंसा शरीरमिदमवश्य हेयं जलबुद्बुदवदनित्यमित्यादिकमस्मरतोऽस्यावस्थानं कथं स्यादित्यादरः । पूजाविशेषदर्शनात्प्रभूतपरिचारावलोकनात्सर्वलोक श्लाघाश्रवणाच्चैवं हि मन्यते प्रत्याख्यातचतुर्विधाहारस्यापि मे जीवितमेव श्रेयः । यत एवंविधा मदुद्देशेनेयं विभूतिर्वर्तत इत्याकांक्षेति यावत् । मरणाशंसा रोगोपद्रवाकुलतया प्राप्तजीवनसंक्लेशस्य मरणं प्रति चित्तप्रणिधानं । यदा न कश्चित्तं प्रतिपन्नाशनं प्रति सपर्यया आद्वियते, न च कश्चित् श्लाघते तदा तस्य यदि शीघ्रं श्रीयेय तदा भद्रकं स्यादित्येवं विविधपरिणामोत्पत्तिर्वा । सुहृदनुरागो बाल्ये सहपां - शुक्रीडनादि व्यसने सहायत्वमुत्सवे सम्भ्रम इत्येवमादेश्व मित्रसुकृतस्यानुस्मरणं । बाल्याद्यवस्थासहक्रीडितमिवानुस्मरणं वा । सुखानुबन्ध एवं मया भुक्तमेवं शयितमेवं क्रीडितमित्येवमादि प्रीतिविशेषं प्रति स्मृतिसमन्वाहारः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268