Book Title: Sagar Dharmamrutam
Author(s): Ashadhar, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
२२४
सागारधर्मामृते
माने विषये पूर्व प्रवृत्ते प्रीतिविशिष्ट प्रमोदातिशये, इत्थं मया रम्यकामिन्यादिकमीक्षितमित्थमालिंगितमित्यादिरूपेण मा स्मतिसमन्वाहारं कुरुष्वेत्यर्थः । यतो बम्भ्रमीति कुटिलं पर्यटति कष्टं परिवर्तते । कोऽसौ, भवी जीवः । क्व, भवे आजीवञ्जीविभावे । किंविशिष्टः सन्, वासितो दृढाहितसंस्कारः । कैरक्षसुखैरिन्द्रियसुखैरेव नात्मज्ञानसंस्कारैः ॥ ६ ॥
मा कांक्षी विभोगादीन् रोगादीनिव दुःखदान् ।
वृणीते कालकूट हि कः प्रसाद्येष्टदेवताम् ॥ ६२ ॥ टीका-मा कांक्षीस्तपोमाहात्म्यादिना ममैते भूयासुरिति नाऽभिलष त्वं । कान्, भाविभोगादीन् भाविनो भोगानिष्टविषयान् । आदिशब्देन चाज्ञैश्व. र्यादीन् । किंविशिष्टान् , दुःखदान् दुरन्तदुःखदायकान् । कानिव, रोगादीनिव ज्वरादिव्याधीष्टवियोगप्रभृतीन् यथा। हि यस्मात् कः कश्चित् वृणीते प्रार्थयते । किं तत्कालकूटं सद्यःप्राणहरं विषं । किं कृत्वा, प्रसाद्य वरदानोन्मुखी कृत्वा । कामिष्टदेवतामभिमतार्थप्रसादनसमर्थां देवी देवं वा ॥ ६२॥ क्षपकस्य चतुर्विधाहारसन्न्यासविधि श्लोकद्वयेनाहइति व्रतशिरोरत्नं कृतसंस्कारमुद्वहन् | खरपानक्रमत्यागात् प्रायेऽयमुपवेक्ष्यति ।। ६३ ॥ एवं निवेद्य संघाय मूरिणा निपुणेक्षिणा । सोऽनुज्ञातोऽखिलाहारं यावज्जीवं त्यजेत् त्रिधा॥६४॥ युग्मं । टीका--त्यजेत् कोऽसौ, क्षपकः । कमखिलाहारं चतुर्विधमपि भोजनं । कथं, त्रिधा मनोवाक्कायैः। कियत्कालं, यावजीवं। किं कुर्वन्, उद्वहन उत्कृष्टं धारयन्। किं तद्, व्रतशिरोरत्नं सल्लेखनां। तस्या एव सर्वव्रतानां साफल्यसंपादकत्वेनोपरि भ्राजमानत्वाच्चूडामणिरिवाभरणानां। किंविशिष्टं, कृतसंस्कारं आहितातिशयं । कथमित्यनेन प्रतिपत्तौ सजन्नस्यामित्याद्विग्रन्थोक्तप्रकारेण । किंविशिष्टः सन्निखिलाहारं स त्यजेत्, अनुज्ञातोऽनुमतः । केन, सूरिणा निर्यापकाचार्येण । किविशिष्टेन, निपुणेक्षिणा निपुणं सूक्ष्म व्याधिदेशादितत्त्वमक्षिते पशत्यभीक्ष्णमिति निपुणेक्षी तेन, व्याधिदेशकालसत्त्वसात्म्यबलप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268