Book Title: Sagar Dharmamrutam
Author(s): Ashadhar, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 246
________________ अष्टमोध्यायः । २३१ www.rever टीका-ओजायते ओजस्वीवाचरति दुःखेन नाभिभूयत इत्यर्थः । कोऽ. सौ, पुरुषः । कस्यां, रुजि उपसर्गादिपीडायामुपस्थितायां । किं कुर्वन् , दृढं भजन गाढं सेवमानः । किं तत्, अहिंसाप्रत्यपि अहिंसाया: स्तोकमहिंसाप्रति । स्तोके प्रतिनेत्यनेनाव्ययीभावः ॥ स्तोकामप्यहिंसामित्यर्थः। यस्तु भवति । कथमधि अधीश्वरः । क, अहिंसासर्वस्वे अहिंसायाः सर्वस्वं साकल्यमहिंसासर्वस्वं तस्मिन् । ईश्वरेऽधीत्यनेन सप्तमी । सकलाऽहिंसाया अधीश्वरो भवतीत्यर्थः । सः क्षिपते निराकरोति । काः, सर्वाः समस्ताः रुजो दुःखानि ॥ १ ॥ यमपालो ह्रदेऽहिंसन्नेकाहं पूजितोऽप्सुरैः। धर्मस्तत्रैव मेण्दन्नः शिशुमारैस्तु भक्षितः ॥ ८२ ॥ टीका-पूजितः । कोऽसौ, यमपाल: वाराणस्यां मातङ्गः । कैः, अप्सुरैः जलदेवताभिः । क्व, हृदे शिशुमारहूदे । किं कुर्वन् , एकाहमेकदिनमहिंसन् चतुर्दशीदिने हिंसामकुर्वन्नित्यर्थः । धर्मस्तु श्रेष्टिपुत्रो भक्षितः। कैः, शिशुमारैः । क, तत्रैव तस्मिन्नेव हूदे । किंविशिष्टः सन् ? मेण्ढघ्नः कृतराजमेण्ढ़कबधः ॥ ८२ ॥ असत्यकृतापायं द्वाभ्यामाह मा गां कामदुधां मिथ्यावादव्याघ्रोन्मुखी कृथाः । अल्पोऽपि हि मृषावादः श्वभ्रदुःखाय कल्पते ॥८॥ टीका-हे क्षपक मा कृथाः मा कुरु त्वं । कां, गां वाचं । पक्षे अनड्वाही। किंविशिष्टां, कामदुधां कामं प्रार्थ्यमानमर्थं दोग्धि क्षरत्याविर्भावयतीत्येवम्भूतां सत्यवाचं कामधेनुं चेत्यर्थः । किंविशिष्टां मा कृथाः, मिथ्यावादव्याघ्रोन्मुखीं मिथ्यावादोऽसत्यजल्पः स एव व्याघ्रः कामधेनोरिव सत्यवाच : संहरणशीलत्वात् , मिथ्यावादव्याघ्रस्य उन्मुखी संमुखीं मिथ्यावादं कर्तुमुद्युक्तां व्याघ्रं च प्रतिवर्तमानां । हि यस्मादल्पोऽपि स्तोकोऽपि किं पुनर्भूयान् । मृषावादो वितथव्याहारः श्वभ्रदुःखाय कल्पते सम्पद्यते, नरकदुःखं सम्पाद. यतीत्यर्थः ॥ ८३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268