Book Title: Sagar Dharmamrutam
Author(s): Ashadhar, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 252
________________ अष्टमोध्यायः। २३७. vn avar ... परायत्तेन दुःखानि बाढं सोढानि संसृतौ ।। त्वयाऽद्य स्ववशः किंञ्चित् सहेच्छनिर्जरां पराम्।।९८॥ टीका-त्वया समाधिसाधनोद्यतेन भवता बाढमत्यर्थं सोढानि अनुभूतानि। कानि, दुःखानि । क्क, संसृतौ अनादिसंसारे। किंविशिष्टेन सता, परायत्तेन परवशेन । अद्य सम्प्रति प्रत्यासन्नमत्युसमये सह साम्यभावनयाऽनुभव । कानि, दुःखानि । कथं, किंचित् स्तोकं अल्पकालं । किंविशिष्टः सन्, स्ववशः स्वाधीनः । किं कुर्वनिच्छन् वांछन् निर्जरामशुभकर्मक्षयं । किंविशिष्टां,परां. उत्कृष्टांमन्त्यां वा अलब्धपूर्वां संवरसहभाविनीम् ॥ ९८ ॥ यावद् गृहीतसंन्यासःस्वं ध्यायन् संस्तरे वसेः। तावनिहन्या कर्माणि प्रचुराणि क्षणे क्षणे ॥ ९९ ॥ टीका-यावत् यावन्तं कालं, गृहीतसंन्यासः प्रतिपन्नभक्तप्रत्याख्यानस्त्वं स्वमात्मानं ध्यायन्नेकाग्रतया चिन्तयन् संस्तरे प्रस्तरे वसेस्तिष्ठेस्तावत् तावन्तं कालं क्षणे क्षणे प्रचुराणि कर्माणि निहन्या नियतमवश्यं क्षपयेः॥९९॥ पुरुषायान् बुभुक्षादिपरीषहजये स्मर । घोरोपसर्गसहने शिवभूतिपुरःसरान् ॥ १०० ॥ टीका--किं च बुभुक्षादिपरीषहजये कर्तव्ये स्मर चिन्तय त्वं । कान्, पुरुषायान् वृषभदेवादीन् । तथा घोरोपसर्गसहने कर्तव्ये शिवभूतिप्रभृतीन् स्मर ॥ १० ॥ अचेतनकृतोपसर्गसहने दृष्टान्तः तृणपूलबृहत्पुञ्जे संक्षोभ्योपरि पातिते । वायुभिः शिवभूतिः स्वं ध्यात्वाऽभूदाशु केवली॥१०१॥ टीका-अभूत्सम्पन्नः । कोऽसौ, शिवभूतिः शिवभूतिसंज्ञो मुनिः । किंविशिष्टः, केवली केवलज्ञानी । कथमाशु सद्यः । किं कृत्वा, ध्यात्वा प्रणिधाय । कं, स्वमात्मानं । क्व सति, तृणपूलबृहत्पुझे लोके गंजी इति प्रासिद्धे । किंवि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268