Book Title: Sagar Dharmamrutam
Author(s): Ashadhar, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
२४६
सागारधर्मामृते
MyIN
प्रमारवंशवाधीन्दुदेवपालनृपात्मजे ।
श्रीमज्जैतुगिदेवेऽसिस्थेम्नाऽवन्तीमवत्यलम् ॥ १९ ॥ असिस्थेम्ना खड्गजलेन अवति रक्षति सति ॥ १९ ॥
नलकच्छपुरे श्रीमन्नैमिचैत्यालयेऽसिधत् ।
टीकेय भव्यकुमुदचन्द्रिकेत्युदिता बुधैः ॥ २० ॥ असिधत् सिद्धा ॥ २०॥
षण्णवव्येकसंख्यानविक्रमाङ्कसमात्यये ।
सप्तम्यामसिते पौषे सिद्धेयं नन्दताचिरम् ॥ २१ ॥ समः संवत्सराः १२९६ वर्षे पौषे सप्तमीदिने शुक्रदिने इत्यर्थः ॥ २१ ॥ श्रीमान् श्रेष्ठिसमुद्धरस्य तनयः श्रीपौरपाटान्वयव्योमेन्दुः सुकृतेन नन्दतु महिचन्द्रोयदभ्यर्थनात् । चक्रे श्रावकधर्मदीपकमिमं गन्थं बुधाशाधरो ग्रन्थस्यास्य च लेखतोऽपि विदधे येनादिमः पुस्तकः ॥२२॥ अलमतिप्रसङ्गेन ॥ २२ ॥
यावत्तिष्ठति शासनं जिनपतेश्छिन्दानमन्तस्तमो यावच्चानिशाकरौ अकुरुतः पुंसां दृशामुत्सवम् । तावत्तिष्ठतु धर्ममूरिभिरियं व्याख्यायमानानिशं भव्यानां पुरतोऽत्र देशविरताचारप्रचारोद्धरा ॥१३॥
ग्रंथसंख्या। अनुष्ठपच्छन्दसां पञ्चशताग्राणि सतां मता।
सहस्राण्यस्य चत्वारि ग्रन्थस्य प्रमितिः किल ॥ २४॥ अङ्काग्रतो ग्रन्थप्रमाणं ४,५०० शुभं भवतु लेखकपाठकयोः ॥ २४ ॥
समाप्तोऽयं ग्रंथः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/763cf4dcfa473796bcb0e6e314f1cdc47d8f02a510e47f8f9518d0330e6424aa.jpg)
Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268