Book Title: Sagar Dharmamrutam
Author(s): Ashadhar, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
अष्टमोध्यायः ।
२२५
रीषहक्षमत्वसंवेगवैराग्यादीनां सूक्ष्मेक्षिकया विचारकेणेत्यर्थः । किं कृत्वा, निवेद्य ज्ञापयित्वा । कस्मै, संघाय चातुर्वर्ण्यश्रमणगणाय । कथमेवं । अयं क्षपक उपवेश्यति निश्चलं स्थास्यति दृढप्रतिज्ञो भविष्यतीत्यर्थः । क, प्राये चतुर्विधाहारसंन्यासे । कस्मात्खरपानक्रमत्यागात् खरपानस्य शुद्धोदकमात्रो. पयोगस्य क्रमेण शनैः शनैस्त्यागः प्रत्याख्यानं तस्मात् । अत्रायं विधिरार्याद्वयेन--" त्यक्ष्यति सर्वाहारं । यावज्जीवं निरम्बरस्त्रिविधम् । निर्यापकसूरिपरः सङ्घाय निवेदयेदेवम् ॥ १ ॥क्षपयति यः क्षपकोऽसौ पिण्डं तस्येति संयमधनस्य । दर्शयितव्यं नीत्वा सङ्घावसथेषु सर्वेषु" ॥ ६३।६४ ।।
एवमतिशयेन परिषहबाधाक्षम प्रति चतुर्विधाहारप्रत्याख्यानमुपदिश्यदानीमतथाभूतस्य क्षपकस्य पानीयमानविकल्पनपूर्वकं त्रिविधप्रत्याख्यानमुपदिशश्चतुर्विधप्रत्याख्यानावसरनिरूपणार्थमाह--
व्याध्याद्यपेक्षयाऽम्भो वा समाध्यर्थ विकल्पयेत् ।
भृशं शक्तिक्षये जह्यात्तदप्यासन्नमृत्युकः ॥ ६५ ।। टीका--वा अथवा विकल्पयेत् गुरुनियोगेन पेयतया प्रतिजानीत क्षपकः । किं तदभ्भः पानीयं । किमर्थ, समाध्यर्थे । कया, व्याध्याद्यपेक्षया यदि पैत्तिको व्याधिर्वा ग्रीष्मादिः कालो वा मरुत्स्थलादिदेशो वा पैत्तिकी प्रकृ. तिर्वा अन्यदप्येवंविधं तृष्णापरिषहोद्रेकासहनकारणं वा भवेत् तदा गुर्वनु. ज्ञया पानीयमुपयोक्ष्येऽहमिति प्रत्याख्यानं प्रतिपद्यतेत्यर्थः । भृशमत्यर्थ शक्तिक्षये बलनाशे पुनरासन्नमृत्युकः प्रत्यासन्नमरणः क्षपकस्तदप्यम्भोऽपि जह्यात् प्रत्याख्यायात् ॥ ६५ ॥ तत्कालोचितं क्षपकोपकारि सङ्घस्यावश्यकरणीयमाह
तदाखिलो वर्णिमुखग्राहितक्षमणो गणः ।
तस्याविघ्नसमाधानसिध्यै तद्यात्तनूत्सृतिम् ॥ ६६ ॥ टीका-तदा तस्मिन्काले तद्यात्कुर्यात् । कोऽसावखिलः सर्वो गणः सङ्घः । का, तनूत्सृतिं कायोत्सर्ग । कस्यै, अविघ्नसमाधानसिध्यै । कस्य, तस्य प्रत्याख्यातचतुर्विधभक्तस्य क्षपकस्य, क्षपकस्योपसर्गा मा भूवन् सिध्द्यतु चाराधनेत्येवमर्थं । किंविशिष्टः सन्, वर्णिमुखग्राहितक्षमणः वर्णिनो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/184aa22b675ec49c32c9565d4c773cc166f570be47eb3844708fa08b9cf9266c.jpg)
Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268