SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २२४ सागारधर्मामृते माने विषये पूर्व प्रवृत्ते प्रीतिविशिष्ट प्रमोदातिशये, इत्थं मया रम्यकामिन्यादिकमीक्षितमित्थमालिंगितमित्यादिरूपेण मा स्मतिसमन्वाहारं कुरुष्वेत्यर्थः । यतो बम्भ्रमीति कुटिलं पर्यटति कष्टं परिवर्तते । कोऽसौ, भवी जीवः । क्व, भवे आजीवञ्जीविभावे । किंविशिष्टः सन्, वासितो दृढाहितसंस्कारः । कैरक्षसुखैरिन्द्रियसुखैरेव नात्मज्ञानसंस्कारैः ॥ ६ ॥ मा कांक्षी विभोगादीन् रोगादीनिव दुःखदान् । वृणीते कालकूट हि कः प्रसाद्येष्टदेवताम् ॥ ६२ ॥ टीका-मा कांक्षीस्तपोमाहात्म्यादिना ममैते भूयासुरिति नाऽभिलष त्वं । कान्, भाविभोगादीन् भाविनो भोगानिष्टविषयान् । आदिशब्देन चाज्ञैश्व. र्यादीन् । किंविशिष्टान् , दुःखदान् दुरन्तदुःखदायकान् । कानिव, रोगादीनिव ज्वरादिव्याधीष्टवियोगप्रभृतीन् यथा। हि यस्मात् कः कश्चित् वृणीते प्रार्थयते । किं तत्कालकूटं सद्यःप्राणहरं विषं । किं कृत्वा, प्रसाद्य वरदानोन्मुखी कृत्वा । कामिष्टदेवतामभिमतार्थप्रसादनसमर्थां देवी देवं वा ॥ ६२॥ क्षपकस्य चतुर्विधाहारसन्न्यासविधि श्लोकद्वयेनाहइति व्रतशिरोरत्नं कृतसंस्कारमुद्वहन् | खरपानक्रमत्यागात् प्रायेऽयमुपवेक्ष्यति ।। ६३ ॥ एवं निवेद्य संघाय मूरिणा निपुणेक्षिणा । सोऽनुज्ञातोऽखिलाहारं यावज्जीवं त्यजेत् त्रिधा॥६४॥ युग्मं । टीका--त्यजेत् कोऽसौ, क्षपकः । कमखिलाहारं चतुर्विधमपि भोजनं । कथं, त्रिधा मनोवाक्कायैः। कियत्कालं, यावजीवं। किं कुर्वन्, उद्वहन उत्कृष्टं धारयन्। किं तद्, व्रतशिरोरत्नं सल्लेखनां। तस्या एव सर्वव्रतानां साफल्यसंपादकत्वेनोपरि भ्राजमानत्वाच्चूडामणिरिवाभरणानां। किंविशिष्टं, कृतसंस्कारं आहितातिशयं । कथमित्यनेन प्रतिपत्तौ सजन्नस्यामित्याद्विग्रन्थोक्तप्रकारेण । किंविशिष्टः सन्निखिलाहारं स त्यजेत्, अनुज्ञातोऽनुमतः । केन, सूरिणा निर्यापकाचार्येण । किविशिष्टेन, निपुणेक्षिणा निपुणं सूक्ष्म व्याधिदेशादितत्त्वमक्षिते पशत्यभीक्ष्णमिति निपुणेक्षी तेन, व्याधिदेशकालसत्त्वसात्म्यबलप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy