________________
अष्टमोध्यायः ।
२२३
प्रतिपत्तौ आचार्यादिभिः क्रियमाणे परिचर्यादिविधौ, महर्द्धिकैः पुरुषैश्च गौरवादरादिके। अत्रोपपत्तिमाह-यतो भवति। किं तद्वहिर्वस्तु बाह्यविषयजातं। किंविशिष्टं, रम्यमात्मनः प्रीणनं । कया, भ्रान्त्या भ्रमेण । कश्च हास्यो हसनीयो लौकिकपरीक्षकाणां न भवति । कया, आयुराशिषा जीवितं मे भूयादित्याशंसया । स एष जीविताशंसाख्योऽतीचारः पुनरनूद्योपपत्तिविशेषेण त्याज्यतयोपदिष्टः । एवमुत्तरेऽपि ॥ ५८ ॥
परिहासभयादाशु मरणे मा मतिं कृथाः ।
दुःखं सोढा निहन्त्यँहो ब्रह्म हन्ति मुमूर्षकः ॥ ५९ ॥ टीका-मा कृथाः मा कुरु त्वं । कां, मतिं इच्छां । क, आशु मरणे शीघ्र जीवितच्छेदे । कस्मात्पषिहभयात् दुःसहक्षुधादिवेदनाभीत्या । यतो निहन्ति निरुद्धास्रवं क्षपयति, विपाकान्तत्वात्कर्मणां । कोऽसौ, दुःखं बाधां सोढा साधुत्वेन संक्लेशपरिणामलक्षणेन सहमानः । किं तदंहः पुरार्जितपापं । तथा हंति हिनस्ति । कोऽसौ, मुमूर्षुकः कुत्सितविधिना मर्तुमिच्छन् । किं तद्ब्रह्म ज्ञानं मोक्षं वा । आत्मघाततो दीर्घसंसारो भवतीत्यर्थः ॥ ५९ ॥
सहपांसुक्रीडितेन स्वं सख्या माऽनुरञ्जय ।
ईदृशैर्बहुशो मुक्तैर्मोहदुर्ललितैरलम् ।। ६० ॥ टीका-माऽनुरञ्जय मा स्नेहय मा प्रीणय वा त्वं । कं, स्वमात्मानं । केन, सख्या मित्रेण । किंविशिष्टेन, सहपांसुक्रीडितेन बालावस्थायां सह मिलित्वा पांसुना रजसा क्रीडितं क्रीडनं येन स तथोक्तः । अतो व्यावर्तनार्थमाह-अलं पर्याप्तं । तव परलोकोद्यतस्य । कैरीदृशैरेवंविधैर्मित्रानुरागस्मर. णप्रायैः परिणामैः । किंविशिष्टंबहुशोऽनेको भुक्तैरनुभूतपूर्वैः । पुनः किंविशिष्टौहदुर्ललितर्मोहनीयकर्मविपाकजन्यदुरध्यवसायैः ।। ६०॥
मा समन्वाहर प्रीतिविशिष्टे कुत्रचित्स्मृतिम् ।
वासितोऽक्षसुखैरेव बम्भ्रमीति भवे भवी ॥ ६१ ॥ टीका-मा समन्वाहर माऽनुबन्धिनी कुरु त्वमुत्पद्यमानामेव निवारयेत्यर्थः । कां, स्मृतिं चेतोवृत्तिं । क्व, कुत्रचित् चक्षुरादीनामन्यतमेनानुभूय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org