SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २२२ सागारधर्मामृतेक्रमेण शनैः शनैः । किं कृत्वा, वितृष्णाकृत्य अन्ने निवृत्तेच्छं कृत्वा। कं, तं क्षपकं । पथ्यप्रथासारैर्हितप्रकाशधारासम्पातैः । कथमित्थमनेन प्रकारेण ॥५५॥ पानं पोढा घनं लेपि ससिक्थं सविपर्ययम् । प्रयोज्य हापयित्वा तत् खरपानं च पूरयेत् ॥ ५६ ॥ टीका-पूरयेद्विवर्धयेत्सूरिः । किं तत्खरपानं प्रथमं शुद्धकाञ्जिकादिरूपं पश्चाच्च शुद्धपानीयरूपं । किं कृत्वा, प्रयोज्य परिचारकैर्दापयित्वा। हापयित्वा च त्याजयित्वा क्षपकेण । किं तत्पानं पेयद्रव्यं । कतिधा,षोढा षट्प्रकारं । तदेवाहवनमित्यादिना । धनं बहुलं दध्यादि । सविपर्ययमितिवचनादच्छं तिंत्रिकादि. फलरससौवीरकोष्णजलादि । लेपि यद्धस्ततलं लिम्पति तद्विपरीतमलेपि । ससिक्थं सिक्थसहितं पयादि तद्विपरीतमसिक्थं मण्णकादि ॥ ५६ । इत्थं च निर्यापकाचार्यः क्षपकं शिक्षयेदिति षभिः श्लोकैराहशिक्षयेच्चेति तं सेयमन्त्या सल्लेखनेयते । अतीचारपिशाचेभ्यो रझेनामतिदुलेभाम् ॥ ५७ ॥ टीका-शिक्षयेच सूरिरनुशिष्यात्तं क्षपकं । इति वक्ष्यमाणेन प्रकारेण अयं पूर्वोक्तश्च । द्वौ चशब्दौ तुल्यकक्षतां द्योतयतः । खरपानं पूरयेच्च तमिति शिक्षयेच्चेति सम्बन्धः । तदेव शिक्षणमाह-सेयमित्यादि । हे आर्य गुणैर्गुणवद्भिश्चाश्रीयमाणा सा परमागमे प्रसिद्धा इयं वर्तते । काऽसौ, सल्लेखना। किंविशिष्टा, अन्या मरणान्तिकी । कस्य, ते तव । तद्वद्रक्ष पालय त्वमेनां । केभ्यः, अतीचारपिशाचेभ्यः अतीचारा जीविताशंसादयः प्रागुक्तास्त एव पिशाचाश्छिद्रं प्राप्य प्रभविष्णुत्वात् । किंविशिष्टामेनामतिदुर्लभां आसंसारमप्राप्तपूर्वत्वादत्यन्तं प्राप्तुमशक्यां ॥ ५७ ॥ क्रमेणातिचारपञ्चकपरिहारं शिक्षयन्नाह प्रतिपत्ती सजन्नस्यां मा शंस स्थास्नु जीवितम् । भ्रान्त्या रम्यं बहिर्वस्तु हास्यः को नाऽऽयुराशिषा।।५८॥ टीका- मा शंस मा वान्छस्व त्वं । किं तजीवितं । किंविशिष्टं, स्थास्नु स्थिरतरं । किं कुर्वन्, सजन आसत्तो भवन् । कस्यामस्यां दृश्यमानायां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy