________________
अष्टमोध्यायः ।
२२१
अन्योऽहं पुद्गलश्चान्य इत्येकान्तेन चिन्तय ।
येनापास्य परद्रव्यग्रहवेशं स्वमाविशेः ॥ ५२ ।। टीका-अहमस्मि । किंविशिष्टोऽन्यः पुद्गलाद्भिन्नः । पुद्गलश्वास्ति । किंविशिष्टो ऽन्यो मत्तो भिन्न इत्येतदेकान्तेन सर्वथा चिंतय भावय त्वं । येनात्मपुद्लयोः पृथक्त्वचिन्तनेन परद्रव्यग्रहवेशमनात्मद्रव्यनिर्बन्धोपयोगमपास्य त्यक्त्वा । स्वमात्मद्रव्यं त्वमाविशेरुपयुञ्जीथाः ॥ ५२ ॥
कापि चेत्पुद्गले सक्तो म्रियेथास्तदुवं चरेः।
तं क्रमीभूय सुस्वादुचिभेटासक्तभिक्षुवत् !! ५३ ।। टीका-क्वापि क्वचिद्भोजनाधुपयोगिनि पुद्गले । सक्त आसक्तः सन् नियेथाः प्राणॉस्त्यजेस्त्वं चेत्तत्ततो ध्रुवं निश्चितं चरेर्भक्षयेर्भक्षयिष्यसि त्वं । कं, तं पुद्गलं । किं कृत्वा, कृमीभूय तत्रैव क्षुद्रजन्तुर्भूत्वा त्वमासाद्य । किंवत् , सुस्वाद्वित्यादि । सुस्वादुनि रसनेन्द्रियातिगृद्विकारिणि चिर्भटे फलविशेष आसक्तो भिक्षु: संन्यासोन्मुखः संयतो यथा ॥ ५३ ॥
किं चाङ्गस्योपकार्य न न चैतत्तत्प्रतीच्छति । तच्छिन्धि तृष्णां भिन्धि स्वं देहामुन्धि दुराश्रवम् ॥५४॥ टीका-किं च अत्यधिकं चोच्यते त्वां प्रति। भवति । किं तदन्नं भोज्यद्रव्यं । किंविशिष्टमुपकारि उपकारकं । कस्याङ्गस्य शरीरस्य । मूर्तेन मूर्तस्यैवोपकार्यत्वदर्शनात् । न च नैव । एतदंङ्गं । तदन्नं प्रतीच्छति उपकारकत्वेन गृह्णाति । तत्तस्माच्छिन्धि नाशय त्वं । कां, तृष्णां अन्ने वाञ्छानुबन्धं । तथा भिन्धि भेदेन भावय त्वं । कं, स्वमात्मानं । करमादेहात् । तथा रुन्धि प्रतिबधान त्वं । कं, दुरास्रवं पापकर्मास्रवणकारणम् ॥ ५४॥ . इत्थं पथ्यप्रथासारैर्वितृष्णीकृत्य तं क्रमात् । त्याजयित्वाऽशनं मूरिः स्निग्धपानं विवर्धयेत् ॥ ५५ ॥ टीका-विवर्धयेत्परिपूर्ण दद्यात् सूरिः । किं तत्, स्निग्धपानं दुग्धादि । किं कृत्वा, त्याजयित्वा परिहार्य । किं तदशनं कवलाहारं । कस्मात्क्रमात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org