________________
२२०
सागारधर्मामृते
टीका-भो अहो । निर्जिताक्ष निःशेषवशीकृतहृषीक । भो विज्ञातपरमार्थ अनन्यसाधारणतया निश्चितनिश्चेतव्यवस्तुतत्त्व । भो महायशः सकल. दिक्चक्रविसृत्वरकीर्ते आराधकराज । अद्य सम्प्रति । इमे भाजनशयनाद्युपकल्पिताः पुद्गला मूर्तपदार्थाः । किं तव प्रतिभान्ति प्रतिभासन्ते । किंवि. शिष्टाः, स्वहिता आत्मन उपकारकाः । किंशब्दः प्रश्ने वितर्के आक्षेपे वा .॥४८॥
किं कोऽपि पुदलः सोऽस्ति यो भुक्त्वा नोज्झितस्त्वया । न चैष मूर्तोऽमूर्तेस्ते कथमप्युपयुज्यते ॥ ४९ ॥ टीका-किमस्ति । कोऽसौ, सः कोऽपि कश्चित्पुद्गलो यो नोज्झितो न त्यक्तस्त्वया । किं कृत्वा, भुक्त्वा अनादिकाले इंद्रियप्रणालिकाभिरुपभुज्य न च नैव । एष पुद्गलो भूतॊ रूपादिमानमूर्ते रूपादिरहितस्य ते तव कथमपि केनापि प्रकारेणोपयुज्यते उपकरोति । गगनस्येव तवैतत्कृतोपकारागोचरत्वात् ॥ ४९ ॥
केवलं करणैरेनमलं ह्यनुभवन्भवान् ।
स्वभावमेवेष्टमिदं भुजेऽहमिति मन्यते ॥ ५० ॥ टीका-केवलं परं मन्यते प्रतिपद्यते । कोऽसौ, भवान् । किं इष्टमभिरुचितमिदं पुरोवर्ति वस्त्वहं भुझे अनुभवामीत्येतत् । किं कुर्वन्ननुभवन् भुञ्जानः। कं, स्वभावमेव आत्मपरिणाममेव वस्तुतस्तस्यैवात्मना भोग्यत्वात्। किं कृत्वा, अलं विषयीकृत्य । कमेनं पुद्गलं। कैः, करणैः चक्षुरादीन्द्रियैः ॥५०॥
तदिदानीमिमां भ्रान्तिमभ्याजोन्मिषती हृदि ।
स एष समयो यत्र जाग्रति स्वहिते बुधाः ॥ ५१ ॥ टीका-तत्तस्मात्कारणात् । अभ्याज निवारय त्वं । कामिमां प्रतीयमानां भ्रांतिं अभोग्ये पुद्गले भोग्यबुद्धिं । किं कुर्वतीमुन्मिषतीमुदयोन्मुखीभवन्तीं। क, हृदि हृदये अन्तश्चेतसि । कदा, इदानीमद्य । यतो वर्तते । कोऽसावेषोऽ यं । स समयः कालः । यत्र किं, यत्र यस्मिनाग्रति सावधाना भवन्ति । के, बुधाः दृष्टतत्वाः । क, स्वहिते ॥ ५ ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org