________________
अष्टमोध्यायः ।
निदानमस्मात्तपसः सुदुश्चराजन्मान्तरे इन्द्रश्चक्रवर्ती धरणेन्द्रो वा स्यामहमित्येवमाद्यनागताभ्युदयाकांक्षा ॥ ४५ ॥ एवं संस्तरारूढस्य क्षपकस्य निर्यापकाचार्य एतत्कृत्वेदं कुर्यादित्याह
यतीनियुज्य तत्कृत्ये यथा गुणवत्तमान् ।
मूरिस्तं भूरि सँस्कुर्यात् स ह्यार्याणां महाक्रतुः ॥४६॥' टीका-संस्कुर्यात् रत्नत्रयसंस्कारयुतं कुर्यात् । कोऽसौ, सूरिः । कं, तं क्षपकं । कथं, भूरि बहु । किं कृत्वा, नियुज्य अधिकृत्य । कान् , यतीन् साधून् । क, तत्कृत्ये आराधकस्यामर्शनादिशरीरकार्ये विकथानिवारणे धर्मकथायां भक्तपानतल्पशोधनमलोत्सर्जनादौ च । कथं, यथार्ह यथायोग्यं । किंविशिष्टान्, गुणवत्तमान् मोक्षकारणगुणातिशयशालिनः । हि यस्मात् क्षपकसमाधिसाधनविधिरार्याणां यतीनां महाक्रतुः परमयज्ञः स्यात् ॥ ४६ । क्षपकस्याहारविशेषप्रकाशनात् भोजनासक्तिनिषेधार्थमाह
योग्यं विचित्रमाहारं प्रकाश्येष्टं तमाशयेत् ।।
तत्रासजन्तमज्ञानाज्ज्ञानाख्यानैर्निवतयेत् ॥ ४७ ॥ टीका-आशयेोजयेत्सूरिः । कं, क्षपकं । कं, इष्टं किंचित्सर्वं वा क्षपके. णाकांक्ष्यमाणमाहारं । किं कृत्वा, प्रकाश्य दर्शयित्वा कमाहारं । किंविशिष्टं, योग्यं कल्प्यं । पुनः किंविशिष्टं, विचित्रं नानाप्रकारं कश्चिद्धि भोज्यविशेषान् दृष्ट्वा तीरं प्राप्तस्य किं ममैभिरिति प्राप्तवैराग्यः संवेगपरो भवति । कश्चिञ्च किमपि भुक्त्वा अपरश्च सर्व भक्त्वा तथा भवति । कश्चित्तु तानास्वाद्य तद्रसासक्तिपरो भवति, चित्रत्वान्मोहनीयकर्मविलासानां । तत्र चेष्टतया भोज्यमाने भोजने अज्ञानात्तत्त्वानवबोधादासजन्तमासक्तिं कुर्वन्तं । क्षपकं निवर्तयेत् ततो विरमयेत्सूरिः । कैानाख्यानैर्बोधप्रचोदकप्रसिद्धोपाख्यानैः॥ ४७ ॥ नवभिः श्लोकैराहारावशेषगृद्धिप्रतिषेधपुरःसरं तत्परिहारक्रममाह
भो निर्जिताक्ष विज्ञातपरमार्थ महायशः । किमद्य प्रतिभान्तीमे पुद्गलाः स्वहितास्तव ॥४८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org