Book Title: Sagar Dharmamrutam
Author(s): Ashadhar, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
२२२
सागारधर्मामृतेक्रमेण शनैः शनैः । किं कृत्वा, वितृष्णाकृत्य अन्ने निवृत्तेच्छं कृत्वा। कं, तं क्षपकं । पथ्यप्रथासारैर्हितप्रकाशधारासम्पातैः । कथमित्थमनेन प्रकारेण ॥५५॥
पानं पोढा घनं लेपि ससिक्थं सविपर्ययम् ।
प्रयोज्य हापयित्वा तत् खरपानं च पूरयेत् ॥ ५६ ॥ टीका-पूरयेद्विवर्धयेत्सूरिः । किं तत्खरपानं प्रथमं शुद्धकाञ्जिकादिरूपं पश्चाच्च शुद्धपानीयरूपं । किं कृत्वा, प्रयोज्य परिचारकैर्दापयित्वा। हापयित्वा च त्याजयित्वा क्षपकेण । किं तत्पानं पेयद्रव्यं । कतिधा,षोढा षट्प्रकारं । तदेवाहवनमित्यादिना । धनं बहुलं दध्यादि । सविपर्ययमितिवचनादच्छं तिंत्रिकादि. फलरससौवीरकोष्णजलादि । लेपि यद्धस्ततलं लिम्पति तद्विपरीतमलेपि । ससिक्थं सिक्थसहितं पयादि तद्विपरीतमसिक्थं मण्णकादि ॥ ५६ । इत्थं च निर्यापकाचार्यः क्षपकं शिक्षयेदिति षभिः श्लोकैराहशिक्षयेच्चेति तं सेयमन्त्या सल्लेखनेयते ।
अतीचारपिशाचेभ्यो रझेनामतिदुलेभाम् ॥ ५७ ॥ टीका-शिक्षयेच सूरिरनुशिष्यात्तं क्षपकं । इति वक्ष्यमाणेन प्रकारेण अयं पूर्वोक्तश्च । द्वौ चशब्दौ तुल्यकक्षतां द्योतयतः । खरपानं पूरयेच्च तमिति शिक्षयेच्चेति सम्बन्धः । तदेव शिक्षणमाह-सेयमित्यादि । हे आर्य गुणैर्गुणवद्भिश्चाश्रीयमाणा सा परमागमे प्रसिद्धा इयं वर्तते । काऽसौ, सल्लेखना। किंविशिष्टा, अन्या मरणान्तिकी । कस्य, ते तव । तद्वद्रक्ष पालय त्वमेनां । केभ्यः, अतीचारपिशाचेभ्यः अतीचारा जीविताशंसादयः प्रागुक्तास्त एव पिशाचाश्छिद्रं प्राप्य प्रभविष्णुत्वात् । किंविशिष्टामेनामतिदुर्लभां आसंसारमप्राप्तपूर्वत्वादत्यन्तं प्राप्तुमशक्यां ॥ ५७ ॥ क्रमेणातिचारपञ्चकपरिहारं शिक्षयन्नाह
प्रतिपत्ती सजन्नस्यां मा शंस स्थास्नु जीवितम् ।
भ्रान्त्या रम्यं बहिर्वस्तु हास्यः को नाऽऽयुराशिषा।।५८॥ टीका- मा शंस मा वान्छस्व त्वं । किं तजीवितं । किंविशिष्टं, स्थास्नु स्थिरतरं । किं कुर्वन्, सजन आसत्तो भवन् । कस्यामस्यां दृश्यमानायां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268