Book Title: Sagar Dharmamrutam
Author(s): Ashadhar, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 231
________________ २१६ सागारधर्मामृतेसंस्तरारोहणसमये स्त्रिया लिङ्गविकल्पमतिदिशन्नाह यदौत्सर्गिकमन्यद्वा लिङ्गमुक्तं जिनैः स्त्रियाः। पुंवत्तदिष्यते मृत्युकाले स्वल्पीकृतोपधेः ।। ३८ ॥ टीका-यल्लिङ्गमौत्सर्गिकमन्यद्वा पदादिकं स्त्रिया जिनरुक्तं तन्मृत्युकाले तस्याः स्वल्पीकृतोपधेः विविक्तवसत्यादिसम्पत्तौ सत्यां वस्त्रमात्रमपि त्यक्तवत्याः श्रुतरिष्यते अभिमन्यते । कस्येव, पुंवत् । अयमर्थः । पुँसो यदौत्सर्गिकलिंगस्य मृत्यावौत्सर्गिकमेव लिंगमिष्यते आपवादिकलिंगस्य चानंतरमेव व्याख्यातप्रकारं, तदा योषितोऽपि ॥ ३८ ॥ मुमुक्षोर्लिंगग्रहत्यागेन स्वद्रव्यग्रहपरत्वमुपदिशति-- देह एव भवो जन्तोयल्लिङ्गं च तदाश्रितम् । जातिवत्तद्ग्रहं तत्र त्यक्त्वा स्वात्मग्रहं विशेत् ।। ३९ ॥ टीका--यद्यस्माजन्तोजीवस्य भवः संसारो भवति । कोऽसौ, देह एव न क्षेत्रादिकं । यच्च लिंगं नाग्न्यादिकं भवति । किंविशिष्टं, तदाश्रितं देहसंबंधि । किंवत्, जातिवत् ब्राह्मणत्वादिजातियथा । तत्तस्मात्तत्र लिंगे। जाताविव ग्रहमभिनिवेशं त्यक्त्वा विशेत् प्रविशेत् क्षपकः । कं, स्वात्मग्रहं स्वशुद्धचिद्रूपनिबन्धं ॥ ३९ ॥ परद्रव्यग्रहस्य बन्धहेतुत्वात्तत्प्रतिपक्षभावनामुपदिशति परद्रव्यग्रहेणैव यद्बद्धोऽनादिचेतनः । तत्स्वद्रव्यग्रहेणैव मोक्ष्यतेऽतस्तमावहेत् ।। ४० ।। टीका--यद्यस्मात् । आत्मा परद्रव्यस्य शरीरादेर्प्रहेण निर्बन्धेनैवानादिबद्धो ज्ञानावरणादिकर्मपारतन्त्र्यमापन्नः । तत्तस्मात्स्वद्रव्यग्रहेणैव शुद्धस्वात्माभिनिवेशेनैव । मोक्ष्यते मुक्तो भविष्यति । यत एवं तत एतस्मात्कारणात् । तं स्वदेहग्रहमावहेत्कुर्यान्मुमुक्षुः ॥ ४० ॥ शुद्धिविवेकप्राप्तिपूर्वकं समाधिमरणं प्रणौति-- अलब्धपूर्व किं तेन न लब्धं येन जीवितम् । त्यतं समाधिना शुद्धिं विवेकं चाप्य पञ्चधा ॥ ४१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268