Book Title: Sagar Dharmamrutam
Author(s): Ashadhar, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 222
________________ अष्टमोध्यायः । २०७ वृक्षफलेन तुल्यं । पातोन्मुखकायलिंगं यथा-"प्रतिदिवसं विजहवलमुझद् भुक्तिं त्यजत्प्रतीकारं । वपुरेव नृणां निगदति चरमचरित्रोदयं समयम्"॥१२॥ कायनिर्ममत्वभावनाविधिमाह जन्ममृत्युजरातङ्काः कायस्यैव न जातु मे। न च कोऽपि भवत्येष ममेत्यङ्गेऽस्तु निर्ममः ॥ १३ ॥ टीका-अस्तु समाधिमरणार्थी भवतु । किंविशिष्टो, निर्ममो ममेदमिति सङ्कल्परहितः । क्व, अङ्गे । कथमित्येवं । भवन्ति । के, जन्ममृत्युजरातङ्काः जन्म च मृत्युश्च जरा च आतङ्कश्च ज्वरादिव्याधिस्ते रोगपुद्गलविवतकत्वात्कायस्यैव पुद्गलस्तूपस्य । न जातु कदाचिदपि । मे शुद्धचिद्पमात्रस्यात्मनः । न च नापि भवति । कोऽसावेष कायः । किंविशिष्टः, कोऽपि कश्चिदुपकर्ता अपकर्ता वा । कस्य, मम शुद्धचिदानन्दमयस्य ॥ १३ ॥ आहारहापनसमयमाह-- पिण्डो जात्याऽपि नाम्नाऽपि समो युक्त्याऽपि योजितः। पिण्डोऽस्ति स्वार्थनाशार्थो यद। तं हापयेत्तदा ॥ १४ ॥ टीका-हापयेत्परिचारकादिभिस्त्याजयेत् समाधिमरणोद्यतः । कं, तं पिण्डमाहारं । कदा, तदा तस्मिन्काले । यदा किं, यदा पिण्ड आहारोऽस्ति भवति । किंविशिष्टः, स्वार्थनाशार्थः आहारस्य हि स्वार्थो बलोपचयौजोलक्षणं देहकार्य, देहस्य च धर्मसिद्धिलक्षणमात्मकार्य स्वार्थस्य नाशो विना'शोऽर्थः प्रयोजनं फलं यस्य स तथोक्तः । किंविशिष्टः, समस्तुल्यः। कया, जात्या पुद्गलवलक्षणया । अपिर्विस्मये आश्चर्य । यत्सजातीयोऽपि स्वार्थ नाशयति । तथा नाम्ना सज्ञयाऽपि समः आहारदेहयोरुभयोरपि पिण्डशब्दाभिधेयत्वात् । जातिनामभ्यां साम्येऽपि सति विधिव्यतिक्रमे प्रयुक्तः स्वार्थनाशाय स्यादित्यत्राह-युक्त्या शास्त्रोक्तविधिना। योजितोऽपि प्रयुक्तोऽपि । क, पिण्डे शरीरे ॥ १४ ॥ सल्लेखनाविधिपूर्वकं समाधिमरणोद्योगविधिमाह-- उपवासादिभिः कायं कषायं च श्रुतामृतैः । संलिख्य गणमध्ये स्यात् समाधिमरणोद्यमी ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268