Book Title: Sagar Dharmamrutam
Author(s): Ashadhar, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 225
________________ २१० सागारधर्मामृते धर्माय आत्मना सह धर्म भवान्तरं नेतुं । क सति, व्याधिदुर्भिक्षज्वरोपस. ईदौ धर्मध्वंसहेतावुपस्थिते । किंविशिष्टे, निष्प्रतिक्रिये प्रतीकाररहिते । तथा स्वरान स्वयं कालक्रमेण परिणम्यायुःक्षये । तच्च्युतौ तस्य वपुषश्यवने । व. शब्दात् घोरोपसर्गादिना च्याव्यमाने च सत्यशनं त्यजेत् । एतेन शरीरत्यजनच्यवनच्यावनविषयं त्रिविधं भक्तप्रत्याख्यानं:मरणमन्वाख्यातं बोद्धव्यम्।२०। समाधिमरणार्थं शरीरोपस्कारविधिमाह अनः पुष्टो मलैर्दुष्टो देहो नान्ते समाधये । तत्कयो विधिना साधोः शोध्यश्चायं तदीप्सया॥२१॥ टीका-न भवति । कोऽसौ, देहः । कस्मै, समाधये समाध्यर्थं । क्व, अन्ते मरणसमये । किंविशिष्टो, अन्नैराहारैः पुष्ट उपचितो मलैश्च वातपित्तकफैर्दुष्टोऽविकृतः । यत एवं तत्तस्मात् । कर्यः कृशीकर्तव्योऽयं देहः । कस्य, साधोः सिद्धिसाधकेनेत्यर्थः । केन, विधिना सल्लेखनाविधानेन । शोध्यश्च योग्यविरेचनबस्तिकर्मादिना निष्काशितजठरमल: कर्त्तव्यः । कया, तदीप्सया समाधिवान्च्छया ॥ २१ ॥ कषायकर्शनं विना कायकर्शनस्य नैष्फल्यं समर्थयते---- सल्लेखनाऽसंलिखतः कषायानिष्फला तनोः । कायोऽजडैदण्डयितुं कषायानेव दण्ड्यते ॥ २२ ॥ टीका-भवति । काऽसौ, सल्लेखना कृशीकरणं । कस्यास्तनोः शरीरस्य । किंविशिष्टा, निष्फला । किं कुर्वतः, असंलिखतः कृशानकुर्वतः साधोः । कान्, कषायान् क्रोधादीन् । यतो दंड्यते परिकृश्यते । कोऽसौ, कायः कैरजडैः बुधैः । किं कर्तुं, दण्डयितुं निगृहीतुं । कान्, कषायानेव न रसरक्तादिधातून् ॥ २२ ॥ आहारदृप्तमनसां कषायदुर्जयत्वं प्रकाश्य भेदज्ञानबलाज्जेतृणां जयवादमाहअन्धोमदान्धैः प्रायेण कषायाः सन्ति दुर्जयाः । ये तु खानान्तरज्ञानात्तान् जयन्ति जयन्ति ते ॥ २३ ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268