________________
२१०
सागारधर्मामृते
धर्माय आत्मना सह धर्म भवान्तरं नेतुं । क सति, व्याधिदुर्भिक्षज्वरोपस.
ईदौ धर्मध्वंसहेतावुपस्थिते । किंविशिष्टे, निष्प्रतिक्रिये प्रतीकाररहिते । तथा स्वरान स्वयं कालक्रमेण परिणम्यायुःक्षये । तच्च्युतौ तस्य वपुषश्यवने । व. शब्दात् घोरोपसर्गादिना च्याव्यमाने च सत्यशनं त्यजेत् । एतेन शरीरत्यजनच्यवनच्यावनविषयं त्रिविधं भक्तप्रत्याख्यानं:मरणमन्वाख्यातं बोद्धव्यम्।२०। समाधिमरणार्थं शरीरोपस्कारविधिमाह
अनः पुष्टो मलैर्दुष्टो देहो नान्ते समाधये ।
तत्कयो विधिना साधोः शोध्यश्चायं तदीप्सया॥२१॥ टीका-न भवति । कोऽसौ, देहः । कस्मै, समाधये समाध्यर्थं । क्व, अन्ते मरणसमये । किंविशिष्टो, अन्नैराहारैः पुष्ट उपचितो मलैश्च वातपित्तकफैर्दुष्टोऽविकृतः । यत एवं तत्तस्मात् । कर्यः कृशीकर्तव्योऽयं देहः । कस्य, साधोः सिद्धिसाधकेनेत्यर्थः । केन, विधिना सल्लेखनाविधानेन । शोध्यश्च योग्यविरेचनबस्तिकर्मादिना निष्काशितजठरमल: कर्त्तव्यः । कया, तदीप्सया समाधिवान्च्छया ॥ २१ ॥ कषायकर्शनं विना कायकर्शनस्य नैष्फल्यं समर्थयते----
सल्लेखनाऽसंलिखतः कषायानिष्फला तनोः ।
कायोऽजडैदण्डयितुं कषायानेव दण्ड्यते ॥ २२ ॥ टीका-भवति । काऽसौ, सल्लेखना कृशीकरणं । कस्यास्तनोः शरीरस्य । किंविशिष्टा, निष्फला । किं कुर्वतः, असंलिखतः कृशानकुर्वतः साधोः । कान्, कषायान् क्रोधादीन् । यतो दंड्यते परिकृश्यते । कोऽसौ, कायः कैरजडैः बुधैः । किं कर्तुं, दण्डयितुं निगृहीतुं । कान्, कषायानेव न रसरक्तादिधातून् ॥ २२ ॥ आहारदृप्तमनसां कषायदुर्जयत्वं प्रकाश्य भेदज्ञानबलाज्जेतृणां जयवादमाहअन्धोमदान्धैः प्रायेण कषायाः सन्ति दुर्जयाः । ये तु खानान्तरज्ञानात्तान् जयन्ति जयन्ति ते ॥ २३ ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org