________________
अष्टमोध्यायः ।
२०९
टीका--स्यादेव अवश्यं भवेत् । कोऽसै, सम्यग्भावितमार्गः सम्यक् सम्पूर्ण चिरं भावितोऽभ्यस्तो मार्गो रत्नत्रयं येन स तथोक्तः । किंविशिष्टः स्यात्, अन्ते जन्मप्रान्ते आराधकस्तदा । यदि चेन्नोदेति नोद्भवति । किं तत्, दुष्कृतं पुराकृतमशुभं कर्म । किंविशिष्टं, प्रतिरोधि समाधिप्रतिखण्डकं । पुनः किंविशिष्टं, सुदुर्वारं यत्नशतेनापि प्रतिषेध्दुमशक्यं । पुनरपि किंविशिष्टं, किञ्चिदनिर्दिष्टनामकं । उक्तं च-मृतिकाले नरा हन्त सन्तोऽपि चिरभाविताः। पतन्ति दर्शनादिभ्यः प्राक्कृताशुभगौरवात् ॥ या त्वभावितमार्गस्य कस्याप्याराधना मृतौ । आराधना रत्नत्रयैकाग्रता स्यात् । अयमन्धनिधिलाभो भाक्तिकेऽनिर्वचनाराधनपरे न विष्टम्भ्यो नाभिनिवेष्टव्योऽत्र दुराग्रहो न कर्तव्यो जिनवचनं प्रमाणीकृत्य समाधिमरणाय प्रयतितव्यमित्यर्थः । उक्तं च-पूर्वमभावितयोगो यद्यप्याराधयन्मृतौ कश्चित् । स्थाणी निधानलाभो निदर्शनं नैव सर्वत्र ॥१८॥
ननु दूरभव्यस्य व्रतं चरतोऽपि न मुक्तिः स्यात्तदलं तद्दवीयस्त्वे व्रतयनेनेत्यारेकायां समाधत्ते---
कार्यो मुक्तो वीयस्यामपि यत्नः सदा व्रते ।
वरं स्वः समयाकारो व्रतान्न नरकेऽव्रतात् ॥ १९ ॥ टीका--कार्यः सदा जिनभाक्तिकैः कर्तव्यः । कोऽसौ, यत्नस्तात्पर्य । क्क, व्रते । कस्यां सत्यां, मुक्ती निवृतौ। किंविशिष्टायां, दवीयस्यां दूरतरायां चिरभाविन्यामपि । किं पुनरितरस्यां । अत्रोपपत्तिमाह वरं भद्रं भवतु । कोऽसौ, स्वः स्वर्गे समयाकारः मुक्ताकालयापना।कस्मात्, व्रतात् व्रतानुष्ठा. नार्जितपुण्यविपाकात् । न वरं । कोऽसौ,समयाकारः । क्व, नरके नरकादिदुर्गतौ। कस्मादत्तात् हिंसाद्याचरणार्जितपापविपाकात् ॥ १९ ॥ भक्तप्रत्याख्यानयोग्यतामाह
धर्माय व्याधिदुर्भिक्षजरादौ निष्प्रतिक्रिये ।
त्यक्तुं वपुः स्वपाकेन तच्च्युतौ वाऽशनं त्यजेत् ॥२०॥ टीका- त्यजेत् प्रत्याख्यायात् श्रावको यमी वा । किं सदशनं भक्तं भक्त. प्रत्याख्यानं कुर्यादित्यर्थः । किं कर्तुं, त्यक्तुं मोक्तुं । किं तद्वपुः शरीरं । कस्मै,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org