SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २०८ सागारधर्मामृते __टीका--समाधिमरणोद्यमी साधकः गणमध्ये चतुर्विधसङ्घसमक्षे स्यात् । किं कृत्वा, संलिख्य सम्यकृशीकृत्य । कं, कायं । कैरुपवासादिभिरनशनादिबाह्यतपोविशेषैः । कषायं च क्रोधादिकं संलिख्य ! कैः, श्रुतामृतैः श्रुतज्ञानसुधाभिः ॥ १५ ॥ मृत्युकाले धर्मविराधनाराधनयोः फलविशेषमाह-- आराद्धोऽपि चिरं धर्मो विराद्धो मरणे मुधा। सत्वाराद्धस्तत्क्षणेऽहः क्षिपत्यपि चिरार्जितम् ॥ १६॥ टीका-भवति। कोऽसौ,धर्मः । किंविशिष्टो,मुधा निष्फलः । किविशिष्टः सन्, विराद्धः अतिवर्तितः ! क्व, मरणे मत्युसमये । किंविशिष्टोऽपि, आराद्धोऽपि आराधितोपि । कियच्चिर दर्घिकालं । स तु धर्मस्तत्क्षणे मरणसमये । आरा. धितो भावितः । क्षिपति निराकरोति । किं तदहः पापं । किंविशिष्टं, चिरा. र्जितमपि असंख्यातभवकोटयुपार्जितमपि ॥ १६ ॥ चिरकालभावितश्रामण्यस्यापि विराध्य म्रियमाणस्याकीर्तिदुष्परिपाका स्वार्थक्षतिं दर्शयति नृपस्येव यतेधर्मो चिरमभ्यस्तिनोऽस्त्रवत् । युधीव स्खलितो मृत्यो स्वार्थभ्रंशोऽयश कटुः ॥१७॥ टीका--भवति । कोऽसौ, स्वार्थभ्रंशः स्वाभिमतार्थनाशः । कस्य, यतेः । कस्येव, नृपस्येव राज्ञो यथा । किंविशिष्टोऽयशःकटुः अकीर्तिदुःखदः । किं कुर्वतः, स्खलतः प्रमाद्यतः । कस्मिन्धमै । क, मत्यौ मरणक्षणे । कस्यामिव, युधीव युद्धसमये यथा । किंविशिष्टस्य, चिरं दीर्घकालं धर्मे अस्त्रवत् शस्त्रे यथा अभ्यस्तिनः कृताभ्यासस्य । अभ्यस्तपूर्वमनेनेति विगृह्य श्राद्धं भुक्तं ठोऽनेनं वेत्यनेन इन्प्रत्ययः ॥ १७ ॥ ननु सुभावितमार्गस्यापि कस्यचित्समाधिमरणं न दृश्यते, कस्यचित्पुनरभावितमार्गस्यापि तदुपलभ्यते, तदनातीयमिति वदन्तं प्रति श्लोकद्वयमाह सम्यग्भावितमार्गोऽन्ते स्यादेवाराधको यदि । प्रतिरोधि सुदुवारं किश्चिन्नोदेति दुष्कृतम् ॥ १८ ॥ Jain Education International For Private & Personal Use Only ____www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy