________________
अष्टमोध्यायः ।
२०७
वृक्षफलेन तुल्यं । पातोन्मुखकायलिंगं यथा-"प्रतिदिवसं विजहवलमुझद् भुक्तिं त्यजत्प्रतीकारं । वपुरेव नृणां निगदति चरमचरित्रोदयं समयम्"॥१२॥ कायनिर्ममत्वभावनाविधिमाह
जन्ममृत्युजरातङ्काः कायस्यैव न जातु मे।
न च कोऽपि भवत्येष ममेत्यङ्गेऽस्तु निर्ममः ॥ १३ ॥ टीका-अस्तु समाधिमरणार्थी भवतु । किंविशिष्टो, निर्ममो ममेदमिति सङ्कल्परहितः । क्व, अङ्गे । कथमित्येवं । भवन्ति । के, जन्ममृत्युजरातङ्काः जन्म च मृत्युश्च जरा च आतङ्कश्च ज्वरादिव्याधिस्ते रोगपुद्गलविवतकत्वात्कायस्यैव पुद्गलस्तूपस्य । न जातु कदाचिदपि । मे शुद्धचिद्पमात्रस्यात्मनः । न च नापि भवति । कोऽसावेष कायः । किंविशिष्टः, कोऽपि कश्चिदुपकर्ता अपकर्ता वा । कस्य, मम शुद्धचिदानन्दमयस्य ॥ १३ ॥
आहारहापनसमयमाह-- पिण्डो जात्याऽपि नाम्नाऽपि समो युक्त्याऽपि योजितः। पिण्डोऽस्ति स्वार्थनाशार्थो यद। तं हापयेत्तदा ॥ १४ ॥ टीका-हापयेत्परिचारकादिभिस्त्याजयेत् समाधिमरणोद्यतः । कं, तं पिण्डमाहारं । कदा, तदा तस्मिन्काले । यदा किं, यदा पिण्ड आहारोऽस्ति भवति । किंविशिष्टः, स्वार्थनाशार्थः आहारस्य हि स्वार्थो बलोपचयौजोलक्षणं देहकार्य, देहस्य च धर्मसिद्धिलक्षणमात्मकार्य स्वार्थस्य नाशो विना'शोऽर्थः प्रयोजनं फलं यस्य स तथोक्तः । किंविशिष्टः, समस्तुल्यः। कया, जात्या पुद्गलवलक्षणया । अपिर्विस्मये आश्चर्य । यत्सजातीयोऽपि स्वार्थ नाशयति । तथा नाम्ना सज्ञयाऽपि समः आहारदेहयोरुभयोरपि पिण्डशब्दाभिधेयत्वात् । जातिनामभ्यां साम्येऽपि सति विधिव्यतिक्रमे प्रयुक्तः स्वार्थनाशाय स्यादित्यत्राह-युक्त्या शास्त्रोक्तविधिना। योजितोऽपि प्रयुक्तोऽपि । क, पिण्डे शरीरे ॥ १४ ॥ सल्लेखनाविधिपूर्वकं समाधिमरणोद्योगविधिमाह--
उपवासादिभिः कायं कषायं च श्रुतामृतैः । संलिख्य गणमध्ये स्यात् समाधिमरणोद्यमी ॥१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org