________________
२०६
सागारधर्मामृतेस्वाराधनापरिणत्या कायत्यागे मुक्तिः करस्थेत्युपदेशार्थमाह
देहादिवैकृतैः सम्यङ् निमित्तैस्तु सुनिश्चिते ।
मृत्यावाराधनामनमतेदूरे न तत्पदम् ॥ १० ॥ टीका-नास्ति । किं, तदशरीरताप्राप्तिलक्षणं पदं । क, दूरे विप्रकर्षे । कतिपयभवलभ्यं निर्वाणमित्यर्थः । कस्य, आराधनामग्नमतेः निश्चयाराधनापरिणतमनसः पुंसः । क सति, मृत्यौ । किंविशिष्टे, सुनिश्चिते । कैः, देहादिवैकृतैः शरीरसंशीलादिविकृतिभिः स्वस्थातुररिष्टैरित्यर्थः । न केवलं तै: सम्यङ् निमित्तैश्च समीचीनभाविशुभाशुभज्ञानोपायैश्च कर्णपिशाचिकादिविद्याज्योतिषोपश्रुतिशकुनादिभिः ॥ १० ॥ उपसर्गमरणोपनिपाते प्रायविधिमाह--
भृशापर्वतकवशात् कदलीघातवत्सकृत् ।
विरमत्यायुषि प्रायमविचारं समाचरेत् ॥११॥ टीका--समाचरेत्सम्यक्कुर्यान्मुमुक्षुः । किं, प्रायं । किंविशिष्टमविचार विचरणं नानागमनमादिनानाप्रकारप्रवृत्तिपरिणमनं विचारस्तेन रहितं प्रायं भक्तप्रत्याख्यानं सार्वकालिकसंन्यासं शुद्धस्वात्मध्यानपरत्वमित्यर्थः। क सत्यायुषि भवधारणकारणे कर्मणि । किं कुर्वति, सकृदक्रमेण विरमत्यपवर्तमाने नश्यति । कस्मात्, भृशापवर्तकवशात् आगाढापमृत्युकारणसामर्थ्यात् । किंवत्कदलीघातवत् छिद्यमानकदलीकाण्डे यथा ॥ ११ ॥ स्वपाकच्युत्या स्वयं पातोन्मुखे देहे सल्लेखना विधेयेत्युपदिशति
क्रमेण पक्त्वा फलवत् स्वयमेव पतिष्यति ।
देहे प्रीत्या महासत्वः कुर्यात्सल्लेखनाविधिम् ॥ १२ ॥ टीका--कुर्यात्कोऽसौ, महासत्त्वः अनिवार्यधैर्यवीर्यः । कं, सल्लेखनाविधि । कया, प्रत्यिा प्रमोदेन । क सति, देहे । किं करिष्यति, पतिष्यति विनाशमेष्यति सति । केन, स्वयमेव कारणान्तरमन्तरेणैव । किं कृत्वा, पक्रवा ५. परिणम्य पतनयोग्यतामासाद्य । केन, क्रमेण कालानुपूर्व्या ! किंवत्फलवत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org