SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ अष्टमोध्यायः। २०५. नावश्यं नाशिने हिंस्यो धर्मो देहाय कामदः । देहो नष्टः पुनलेभ्यो धर्मस्त्वत्यन्त दुर्लभः ॥ ७ ॥ टीका--न हिंस्यो नोपहन्तव्यः सद्भिः । कोऽसौ, धर्मः । कस्मै, देहाय । किंविशिष्टाय, अवश्यं नाशिने निश्चितनाशाय । किंविशिष्टः, कामदः समीहि. तार्थप्रदो यतः । किञ्च । लभ्योऽवश्यप्राप्यः । कोऽसौ, देहः । कथं, पुनः । किंविशिष्टो, नष्टो नाशं गतः । देहमात्रापेक्षयेदमुच्यते, धर्मस्तु प्रक्रमात्समा-. धिमरणोऽत्यन्तदुर्लभो भवति । यत्नशतेनापि लब्धुमशक्य इत्यर्थः ॥ ७ ॥ विधिवत्प्राणांस्त्यजत आत्मघातशङ्कामपनुदति न चात्मघातोऽस्ति वृषक्षतौ वपुरुपेक्षितुः। कषायावेशतः प्राणान् विषायेहिंसतः स हि ॥ ८ ॥ टीका---न चास्ति । कोऽसावात्मघातः स्ववधलक्षणो दोषः । कस्य, उपेक्षितुः यथाविधि भक्तप्रत्याख्यानादिना साधुत्वेन त्यजतः साधोः । किं तद्वपुः शरीरम् । कस्यां सत्यां वृषक्षतौ प्रतिपन्नव्रतविनाशहेतौ उपस्थिते सतीत्यर्थः । हि यस्माद्भवति । कोऽसौ, सः आत्मघातः । कस्य, पुंसः । किं कुर्वतो, हिंसतो व्यपरोपयतः । कान्, प्राणान् । कैः, विषायैः गरलशस्त्रश्वासनिरोधजलाग्निप्रवेशलंघनादिभिः । कस्मात्, कषायावेशतः क्रोधादिपरिणामवशात् ॥ ८ ॥ एवं संयमविनाशहेतुसन्निधाने कायत्यागं समयंदानी कालोपसर्गमरणनिर्णयपूर्वकप्रायोपवेशनेन तत्तनिष्ठासाफल्यविधापनार्थमाह कालेन वोपसर्गेण निश्चित्यायुः क्षयोन्मुखम् । कृत्वा यथाविधि प्रायं तास्ताः सफलयेत् क्रियाः।।९।। टीका-सफलयेत् फलवतीः कुर्यात् साधुः । काः, क्रियाश्चेष्टाः । किंविशिष्टाः, तास्ताः दर्शनिकादिप्रतिमाविषयाः नित्यनैमित्तिकीश्च । किं कृत्वा, यथाविधि विधिना । प्रायं संन्यासयुक्तानशनं कृत्वा । किं कृत्वा, निश्चित्य सम्यक् निर्णाय । किं तदायुर्जीवितं । किंविशिष्टं, क्षयोन्मुखं प्रत्यासन्नविनाशं । केन, कालेन स्थितिबन्धच्छेदहेतुना समयेन । वा अथवा उपसर्गेण दुनिचाराधकारिरोगशत्रुप्रहारादिलक्षणेन कृच्छेण सुनिश्चिते मरणे ॥ ९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy