Book Title: Sagar Dharmamrutam
Author(s): Ashadhar, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 228
________________ अष्टमोध्यायः । संन्यासार्थं क्षेत्रविशेषस्वीकार माह प्रायार्थी जिनजन्मादि स्थानं परमपावनम् । आश्रयेत्तदलाभे तु योग्य महादिकम् ॥ २९ ॥ टीका-- आश्रयेदुपसर्पेत । कोऽसौ प्रायार्थी संन्यासानशनकामः । किं तत्, जिनजन्मादि स्थानं । किंविशिष्टं, परमपावनं परं पवित्रीकरणं । तत्र जन्मस्थानं वृषभनाथस्यायोद्ध्या । निष्क्रमणस्थानं सिद्धार्थवनं । ज्ञानस्थानं शकटमुखोद्यानं । निर्वाणस्थानं कैलासः । एवमन्येषामपि जन्मादिस्थानानि यथागममधिगम्यानि । तदलाभे तु तस्याप्राप्तौ पुनराश्रयेदसौ । किं तत्, आर्हद्गृहादिकं जिनचैत्यालयसंयताश्रमादिकं । किंविशिष्टं, योग्यं समाधिसाधनसमर्थम् ॥ २९ ॥ २१३ तीर्थम्प्रति चलितस्यावान्तरमार्गेऽपि मृतस्याराधकत्वं दर्शयतिप्रस्थितो यदि तीर्थाय म्रियतेऽवान्तरे तदा । अस्त्येवाराधको यस्माद्भावना भवनाशिनी ॥ ३० ॥ टीका - यदि म्रियते संमाध्यर्थी । क्क, अवान्तरे स्वस्थानतीर्थस्थानयोरन्तराले । उपलक्षणमेतत् । तेन निर्यापकाचार्यमरणमप्याराधकं स्यादेव । किंविशिष्टः सन्, प्रस्थितः गन्तुमारब्धः । कस्मै, तीर्थाय जिनजन्मादिस्थानाय निर्यापकाचार्याय वा । तदा अस्त्येव अवश्यं भवत्यसौ । किंविशिष्टः, आराधकः यस्मात्कारणाद्भवति । काऽसौ भावना समाधिसाधनप्रणिधानं । किंविशिष्टा, भवनाशिनी संसारनिरसनी ॥ ३० ॥ तीर्थं गमिष्यन् क्षमापनं क्षमणं च कुर्यादित्युपदिशति - रागात् द्वेषान्ममत्वाद्वा यो विराद्धो विराधकः । यश्च तं क्षमयेत्तस्मै क्षाम्येच्च त्रिविधेन सः || ३१ ॥ टीका - क्षमयेत् क्षमां कारयेत्सः तीर्थं जिगमिषुः । कं, तं । यः किं, यो विराद्धो दुःखे स्थापितः । कस्मात् रागात् स्नेहात् द्वेषात् क्रोधात् ममत्वात् -ममकाराद्वा । यश्च रागादेर्विराधकः स्वस्य वैमनस्योत्पादकः सम्पन्नस्तस्मै । क्षाम्येच्च क्षमां कुर्यात्सः । केन त्रिविधेन मनोवाक्कायेन ॥ ३१ ॥ • Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268