Book Title: Sagar Dharmamrutam
Author(s): Ashadhar, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
अष्टमोध्यायः।
टीका-सन्ति भवंति । के, कषायाः । किंविशिष्टा, दुर्जयाः जेतुमशक्याः । कैरन्धोमदांधैः अन्धस आहारस्य मदः क्षीवता आहारकृतो मनोदर्प इत्यर्थः । अन्धोमदेन अन्धाः स्वपरतत्त्वज्ञानविकलाः अन्धोमदान्धास्तैः । केन, प्रायण बाहुल्येन । कदाचिदैवदुर्योगात्तैरपि कषाया जीयन्ते इत्येवमर्थमेतत् । ये तु ये पुरुषाः पुनस्तान् कषायान् जयन्ति । कस्मात्स्वानान्तरज्ञानात् स्व आत्मा अङ्गं देहः स स्वाङ्गं स्वाङ्गे स्वाङ्गयोरन्तरं भेदः स्वागान्तरं तस्य ज्ञानमहमन्यो देहोऽन्य इति बोधस्तस्मात् ते पुरुषा जयन्ति सर्वोत्कर्षण वर्तन्ते । जगदुपरि स्फुरन्तीत्यर्थः ॥ २३ ॥
एवं देहाहारत्यागं विधाप्येदानीमीहितत्यागेन स्वात्मसमाधये क्षपकं प्रेरयन्नाह
गहनं न तनोनिं पुंसः किन्त्वत्र संयमः ।
योगानुत्तेयावर्त्य तदात्माऽऽत्मनि युज्यताम् ॥२४॥ टीका--न भवति । किं तत्, हानं त्यजनं । कस्यास्तनोः शरीरस्य । किंविशिष्टं, गहनं कष्टं दुष्करमित्यर्थः । कस्य, पुंसः पुरुषस्य । काभिश्चि. स्त्रीभिरपि प्रियविप्रयोगादौ क्रियमाणस्य शरीरत्यजनस्य दृश्यमानत्वात् । किं तु भवति । कोऽसौ, संयमः । किंविशिष्टो, गहनः । क्व, अत्र तनुहाने क्रियमाणे । यत एवं तत्तस्माद्युज्यतां समाधीयतां क्षपकेण । कोऽसावात्मा कस्मिन्नात्मनि । किं कृत्वा, व्यावर्त्य निवर्त्य । कस्या, योगानुवृत्तेः मनोवाक्कायव्यापारानुगमात् । भावतो निजनिजव्यापारेषु मनोवाकायान प्रवत्र्येत्यर्थः ॥ २४ ॥ यतिद्वयस्य समाधिमरणफलविशेषमभिधत्तेश्रावकः श्रमणो वाऽन्ते कृत्वा योग्यां स्थिराशयः । शुद्धस्वात्मरतः प्राणान् मुक्त्वा स्यादुदितोदितः ॥ २५॥ टीका-श्रावकः श्रमणो वा स्यात् । किंविशिष्टः, उदितोदितः विविधाद्युताभ्युदयानुभवपूर्वकनिःश्रेयसभाग्भवेत् । किं कृत्वा, मुक्त्वा त्यक्त्वा । कान्, प्राणान् । कथम्भूतः सन्, शुद्धस्वात्मरत: निर्मलनिजाचद्रूपलीनः । कथम्भूतो भूत्वा, स्थिराशयः निश्चलचित्त: । क्व, अन्ते प्रत्यासन्ने मरणे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4b64f49e298a03337facc5c4228811941952a05ed2a5063fd7fc92c6dcde47ed.jpg)
Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268