Book Title: Sagar Dharmamrutam
Author(s): Ashadhar, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 188
________________ षष्टोध्यायः । १७३ चित्रं पाणिगृहीतीयं कथं मां विष्वगाविशत् । यत्पृथग्भावितात्माऽपि समवैम्यनया पुनः ॥ ३५ ॥ टीका-चित्रं यस्याः खलु पाणिर्गृह्यते सा कथं सर्वात्मना ग्राहकात्मानं प्रविशतीति विस्मयो मे । कथं केन प्रकारेण आविशत् प्रविष्टा । काऽसौ, इयं दृश्यमाना पाणिगृहीती परिणीतस्त्री। कं, मां परिणेतारं । कथं, विष्वक समन्तात् मामात्ममयं कृतवतीत्यर्थः। अत्रोपपत्तिमाह-यद्यस्मात् । समवैमि तादात्म्यं प्रतिपद्ये अहं । कथं,सह । कया,अनया अहमेवेयमियमेवाहमित्यभे. दाध्यवसायपरिणतो भवामीत्यर्थः। कथं,पुनर्भूयः । किंविशिष्टोऽपि सन् ,पृथग्भावितात्माऽपि पृथगेतस्या भेदेन इयमन्या अहमन्य इति कोऽनया सह ममाभेदप्रत्यय इति तत्त्वज्ञानेन भावितो मुहुर्मुहुश्चिन्तित आत्मा अहंकारास्पदमन्तस्तत्त्वं येन स तथोक्तः ।किं पुनर्मोहवशादभेदभावनापरिणत इत्यपिशब्दार्थः।३५। स्त्रीनिवृत्तिमात्मनो निरूप्य वित्तमुपपत्या प्रतिक्षिपन्नाह स्त्रीतश्चित्त निवृत्त चेन्ननु वित्तं किमीहसे । मृतमण्डनकल्पोहि स्त्रीनिरीहे धनग्रहः ॥ ३६ ॥ टीका--चेदिति पराभिप्रायद्योतने। हे चित्त अंतःकरण । यदि निवृत्त विवेकबलाघ्यावृत्तं । किं तत् कर्तृ, त्वं । कस्मात् , स्त्रीतः स्त्रियाः सकाशात् स्त्रियं नेच्छामीत्यभिप्रेषि यदि त्वमित्यर्थः । ननुरमर्षे न मृष्याम्यहमिमं त्वदभिप्रायमित्यर्थः । तदा किमिति प्रश्नाक्षेपे तदा किमीहसे किं वाञ्छसि त्वं हे चित्त । किं तद्वित्तं धनं । स्त्रीनिवृत्तस्य धनमिच्छतः किमनुपपन्नमित्यत्राह-हि यस्मात् भवति । कोऽसौ, धनग्रहः द्रविणार्जमरक्षणवर्जनाभिनिवेशो धनस्वीकारो वा । किंविशिष्टो मृतमण्डनकल्पः मृतस्य मण्डनमिव । क, स्त्रीनिरीहे स्त्रियां निःस्पृहे । यथा मृतकशरीरे क्रियमाणं मण्डनं तद्भोक्तुरभावान्निष्फलं तथा स्त्रियादिविषयविमुखस्य परिगृह्यमाणं धनमिति भावः । धनस्य हि विषयसुखसाधनं फलत्वेन प्रसिद्धं । तत्र च कामिन्य आलम्बनविभावत्वेन मुख्याः सौधोद्यानादयश्चोद्दीपनविभावत्वेन गौणाः । यस्य च नास्ति स्त्रियाम. भिलाषस्तस्य किमितरविषयैरिति ॥ ३६ ॥ एवं निर्वेदं भावयतः परमसामायिकभावनार्थं सप्तश्लोकीमाह Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268