Book Title: Sagar Dharmamrutam
Author(s): Ashadhar, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
सप्तमोध्यायः।
२०१ ...................................on. टीका-सन्निदध्यात् संयोजयेत् । श्रावकः । किं तत्, एतत्सल्लेखनाख्यं शीलं । क, हृदि चित्ते । कथं, सदा पश्चिमसल्लेखनां नित्यं भावयेदित्यर्थः । कथमिति । किमिति, अवश्यं नियमेन । करिष्ये विधास्येऽहं । कां, सल्लेखनां बाह्याभ्यन्तरतपोभिः सम्यकायकषायकृशीकरणमाचारं । किंधिशिष्टां, मारणांतिकी मरणमेवान्तो मरणान्तः तद्भवमरणमित्यर्थः तत्र भवां । केन, विधिना शास्त्रोक्तविधानेन ॥ ५७ ॥
सहगामीकृतं तेन धर्मसर्वस्वमात्मनः ।
समाधिमरणं येन भवविश्वासि साधितम् ॥ ५८ ॥ टीका--तेन पुंसा कृतं । किं तदात्मनः स्वस्य । धर्मसर्वस्वं व्यवहारनि. धयरत्नत्रयं । किंविशिष्टं, सहगामि आत्मना सह भवान्तरगन्तृ । येन किं, येन साधितं निर्वर्तितं । किं तत्समाधिमरणं रत्नत्रयैकाग्रतया प्राणत्यागः । किंविशिष्टं, भवविध्वंसि संसारनिर्मूलनशीलं ॥ ५८ ॥
यत्प्रागुक्तं मुनीन्द्राणां वृत्तं तदपि सेव्यताम् ।
सम्य निरूप्य पदवीं शक्तिं च स्वामुपासकैः ॥५९॥ टीका--प्राक् चतुर्थाद्यध्यायषट्के । मुनींद्राणां महामुनीनां । यद् वृत्तं समितिगुप्त्याद्याचरणमुक्तं तदपि न केवलं संसेव्यतामनुष्टीयतां । कैरुपासकैः श्रावकैः । किं कृत्वा, सम्यङ् निरूप्य अविपतिं पर्यालोच्य । कां, स्वामात्मीयां । पदवीं संयमभूमिकां । शक्तिं च वीर्य ॥ ५९ ॥ प्रकृतमुपसंहरन्नौत्सर्गिकहिंसादिवृत्तिं प्रति देशयतिं प्रयुक्ते--
इत्यापवादिकी चित्रां स्वभ्यस्यन्विरतिं सुधीः।
कालादिलब्धौ क्रमतां नवधौत्सर्गिकी प्रति ॥ ६०॥ टीका-क्रमतामुत्सहतां । कोऽसौ, सुधीः तत्त्वज्ञानसम्पन्नः श्रावकः । कथं, प्रति उद्दिश्य । कां, विरतिं । किंविशिष्टामौत्सर्गिकी उत्कृष्टं सर्जनमुत्सर्गः सर्वसंगत्यागः तत्र भवामौत्सर्गिकी । कतिधा, नवधा मनोवाकायैः प्रत्येकं कृतकारितानुमतानां त्यागेन नवप्रकारां। कस्या, कालादिलब्धौ कालदेशबलवीर्यसहायसाधनादिसामय्यां सत्यां । किं कुर्वन् , स्वभ्यस्यन सम्यग्भावयन् । कां, विरतिं हिंसाविनिवृत्तिं । किंविशिष्टामापवादिकी यती.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268