Book Title: Sagar Dharmamrutam
Author(s): Ashadhar, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
सागारधर्मामृते
----^^AAAAAAAN/NAA
....
v
vvvvvvvvvvvvvvvv~
दूपतां निर्ग्रन्थलिङ्गं । किंविशिष्टोऽपि, अनादिमिथ्यागपि न केवल सादिमिथ्यादृष्टिरविरतसम्यग्दृष्टिः श्रावको वेत्यपिशब्दार्थः । उक्तं च--" आराध्य चरणमनुपममनादिमिथ्यादृशोऽपि यत्क्षणतः । दृष्टा विमुक्तिभाजस्ततोऽपि चारित्रमबेष्टम् " ॥ ४ ॥ शरीरस्य स्थायिनः पातने पातोन्मुखस्य च शोचने निषेधमुपपादयति
न धर्मसाधनमिति स्थास्नु नाश्यं वपुर्बुधैः ।
न च केनापि नो रक्ष्यमिति शोच्यं विनश्वरम् ॥५॥ टीका-न नाश्यं विश्लेष्यं । किं तद्वपुः शरीरं । कैर्बुधः तत्त्वज्ञैः । किंविशिष्टं, स्थास्नु साधुत्वेन रत्नत्रयानुष्टानसाधकत्वलक्षणेन तिष्टत् । कथं कृत्वा, धर्मसाधनमिति रत्नत्रयसिद्धयुपायो यतः । न च नापि शोच्यं शोचनीयं वपुर्बुधैः । किंविशिष्टं, विनश्वरं विशेषेण नश्यत् तद्भवमरणं प्राप्नुवदित्यर्थः । कथं कृत्वा, केनापि नो रक्ष्यमिति योगीन्द्रदेवेन्द्रदानवेन्द्रादिनाऽपि रक्षयितुमशक्यं यतः । उक्तं च-“ गहनं न शरीरस्य हि विसर्जनं किं तु गहनमिह वृत्तम् । तन्न स्थास्नु विनाश्यं न नश्वरं शोच्यमिदमाहुः" ॥ ५॥ कायस्यानुवर्तनोपचरणपरिहरणयोग्यतोपदेशार्थमाह--
कायः स्वस्थोऽनुवयं स्यात् प्रतीकार्यश्च रोगितः।
उपकारं विपर्यस्यं-स्त्याज्यः सद्भिः खलो यथा ॥ ६ ॥ टीका-स्यात् । कोऽसौ, काय। किंविशिष्टोऽनुवयः पथ्याहारविहाराभ्यां स्वास्थ्य एव स्थापनीयः । कैः, सद्भिः साधुभिः । किंविशिष्टः सन् , स्वस्थोऽ विकृतः । तथा प्रतीकार्यो योग्यौषधादिनोपचरणीयः । कोऽसौ, कायः । कैः, सद्भिः । किंविशिष्टः सन् , रोगितः सजातरोगः । तथा त्याज्यः। कोऽसौ, कायः सद्भिः । किं कुर्वन् , विपर्यस्यन् अन्यथा कुर्वन् । कमुपकारं स्वास्थ्यायारोग्याय चेक्रीयमाणमुपक्रम अधर्मसाधनं व्याधि तवृद्धिं च गच्छन्नित्यर्थः । क इव, खलो दुर्जनः पिण्याको वा यथा ॥६॥
शरीरार्थं धर्मोपघातस्यात्यन्तनिषेधमाह--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268