Book Title: Sagar Dharmamrutam
Author(s): Ashadhar, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 218
________________ अष्टमोध्यायः । २०३ कस्य श्रावकत्वेन कस्य च यतित्वेन मोक्षमार्गप्रवृत्तिः कर्तव्येति पृच्छन्तं प्रत्याह सामग्रीविधुरस्यैव श्रावकस्यायमिष्यते । विधिः सत्यां तु सामग्र्यां श्रेयसी जिनरूपता ॥ २॥ टीका-इष्यते अभिमन्यते पूर्वाचायः । कोऽसावयवमुक्तो वक्ष्यमाणश्च विधिः क्रियाकल्पः । कस्य, श्रावकस्य । किंविशिष्टस्य, सामग्रीविधुरस्यैव जिनलिङ्गग्रहणायोग्यत्रिस्थानकदोषादियुक्तस्य नान्यस्य । सामय्यां तु सत्यां भवति । काऽसौ, जिनरूपता जिनलिङ्गग्रहणं । किंविशिष्टा, श्रेयसी प्रशस्यतरा ॥ २ ॥ जिनलिङ्गस्वीकारकारणमाह किञ्चित्कारणमासाद्य विरक्ताः कामभोगतः। त्यक्त्वा सर्वोपधिं धीराः श्रयन्ति जिनरूपताम् ।। ३ ।। टीका-श्रयन्ति स्वीकुर्वन्ति । के ते, धीराः श्रावकाः परीषहोपसर्गसहने बद्धकक्षाः । कां, जिनरूपतां । किं कृत्वा, त्यक्त्वा व्युत्सृज्य । कं, सर्वोपाधि बाह्याभ्यन्तरसङ्गं । किंविशिष्टाः सन्तः, विरक्ताः व्यावृत्तचेतसः । काभ्यां, कामभोगतः कामः स्पर्शनरसनविषयानुभवः भोगो घ्राणचक्षुःश्रवणविषयानुभवः कामश्च भोगश्च कामभोगौ ताभ्यां । किं कृत्वा, आसाद्य प्राप्य । किं, कारणं । किंविशिष्टं, किञ्चित् तत्त्वज्ञानेष्ववियोगशत्रुपराजयादीनामन्यतमम् ॥३॥ जिनरूपतास्वीकारमाहात्म्यमाह-- अनादिमिथ्यागपि श्रित्वाऽर्हद्रूपतां पुमान् । साम्यं प्रपन्नः स्वं ध्यायन् मुच्यतेऽन्तमुहूर्ततः ॥ ४ ॥ टीका--मुच्यते द्रव्यभावकमभिः स्वयमेव विश्लिप्यते । कोऽसौ, पुमान् द्रव्यतः पुल्लिंग एव । कस्मात् , अन्तमुहूर्तत: किञ्चिदूननाडीद्वयमात्रात् । किं कुर्वन् , ध्यायन् समादधानः । कं, स्वमात्मानं । किंविशिष्टः सन् , प्रपन्नः प्रातः । किं तत् , साम्यं माध्यस्थ्यं । किं कृत्वा, श्रित्वा । कामह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268