SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ सप्तमोध्यायः। २०१ ...................................on. टीका-सन्निदध्यात् संयोजयेत् । श्रावकः । किं तत्, एतत्सल्लेखनाख्यं शीलं । क, हृदि चित्ते । कथं, सदा पश्चिमसल्लेखनां नित्यं भावयेदित्यर्थः । कथमिति । किमिति, अवश्यं नियमेन । करिष्ये विधास्येऽहं । कां, सल्लेखनां बाह्याभ्यन्तरतपोभिः सम्यकायकषायकृशीकरणमाचारं । किंधिशिष्टां, मारणांतिकी मरणमेवान्तो मरणान्तः तद्भवमरणमित्यर्थः तत्र भवां । केन, विधिना शास्त्रोक्तविधानेन ॥ ५७ ॥ सहगामीकृतं तेन धर्मसर्वस्वमात्मनः । समाधिमरणं येन भवविश्वासि साधितम् ॥ ५८ ॥ टीका--तेन पुंसा कृतं । किं तदात्मनः स्वस्य । धर्मसर्वस्वं व्यवहारनि. धयरत्नत्रयं । किंविशिष्टं, सहगामि आत्मना सह भवान्तरगन्तृ । येन किं, येन साधितं निर्वर्तितं । किं तत्समाधिमरणं रत्नत्रयैकाग्रतया प्राणत्यागः । किंविशिष्टं, भवविध्वंसि संसारनिर्मूलनशीलं ॥ ५८ ॥ यत्प्रागुक्तं मुनीन्द्राणां वृत्तं तदपि सेव्यताम् । सम्य निरूप्य पदवीं शक्तिं च स्वामुपासकैः ॥५९॥ टीका--प्राक् चतुर्थाद्यध्यायषट्के । मुनींद्राणां महामुनीनां । यद् वृत्तं समितिगुप्त्याद्याचरणमुक्तं तदपि न केवलं संसेव्यतामनुष्टीयतां । कैरुपासकैः श्रावकैः । किं कृत्वा, सम्यङ् निरूप्य अविपतिं पर्यालोच्य । कां, स्वामात्मीयां । पदवीं संयमभूमिकां । शक्तिं च वीर्य ॥ ५९ ॥ प्रकृतमुपसंहरन्नौत्सर्गिकहिंसादिवृत्तिं प्रति देशयतिं प्रयुक्ते-- इत्यापवादिकी चित्रां स्वभ्यस्यन्विरतिं सुधीः। कालादिलब्धौ क्रमतां नवधौत्सर्गिकी प्रति ॥ ६०॥ टीका-क्रमतामुत्सहतां । कोऽसौ, सुधीः तत्त्वज्ञानसम्पन्नः श्रावकः । कथं, प्रति उद्दिश्य । कां, विरतिं । किंविशिष्टामौत्सर्गिकी उत्कृष्टं सर्जनमुत्सर्गः सर्वसंगत्यागः तत्र भवामौत्सर्गिकी । कतिधा, नवधा मनोवाकायैः प्रत्येकं कृतकारितानुमतानां त्यागेन नवप्रकारां। कस्या, कालादिलब्धौ कालदेशबलवीर्यसहायसाधनादिसामय्यां सत्यां । किं कुर्वन् , स्वभ्यस्यन सम्यग्भावयन् । कां, विरतिं हिंसाविनिवृत्तिं । किंविशिष्टामापवादिकी यती. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy