________________
२००
सागारधर्मामृते
wwwwwwwwwwwwwwwwwwwn
विस्निह्यन्ति न सम्पदो न दृशमप्यासूत्रयन्त्यापदः सेव्यं साधुमनस्विनां भजति यः सन्तोषमंहोमुषम् ।।५४ ।। टीका-योऽहोमुर्ष पापापहं सन्तोषं भजति सेवते । किंविशिष्टं,सेव्यं । केषां, साधूनां सिद्धिसाधकानां मनस्विनां चाभिमानिनां । तत्र सन्तोषसेवके पुंसि । नो न्यञ्चति नीचैन भवति आरूढारूढ एव भवतीत्यर्थः कोऽसौ,विवेकतपनः युक्तायुक्तविचारभास्करः । तथा न अञ्चति न प्रचरति । काऽसावविद्यातमी अज्ञानरात्रिः । तथा नामोति न लभते । काऽसौ, कृपामृतसरित् अनुकम्पापीयूषनदी । किं, स्खालतं प्रवृत्तिप्रतिबन्धं । तथा नोदेति नोद्भवति । कोऽसौ, दैन्यज्वरः दैन्यं विषादो ज्वर इव देहमनस्तापहेतुत्वात् । तथा न विस्निह्यन्ति न विरज्यन्ति । काः, सम्पदः श्रियः । तथा नासूत्रयन्ति नारचयन्ति । का, आपदो विपदः । कां, दृशमपि किं पुनरालिंगनादिकम् ॥ ५४॥
स्वाध्यायमुत्तमं कुर्यादनुप्रेक्षाश्च भावयेत् ।।
यस्तु मन्दायते तत्र स्वकृत्ये स प्रमाद्यति ॥ ५५ ॥ टीका-कुर्याच्छ्रावकः । कं, स्वाध्यायं । किंविशिष्टमुत्तमं अध्यात्मादिवि. द्याविषयं प्रकृष्टशक्तिपर्यंतं च । तथा भावयेत् अभ्यस्येत् । काः , अनुप्रेक्षाः अनित्यत्वादिभावना द्वादश । चशब्दाद्दर्शनविशुध्द्यादिभावनाश्च षोडश । यस्तु यः पुनस्तत्र स्वाध्यायादौ । मन्दायते अलसो भवति । स प्रमाद्यति नावधत्ते नोत्सहत इत्यर्थः । क्व, स्वकृत्ये आत्मकार्य ॥ ५५ ॥
धर्मान्नान्यः सुहृत्पापानान्यः शत्रुः शरीरिणाम् ।
इति नित्यं स्मरेन स्यानरः संक्लेशगोचरः ॥५६॥ टीका-नरः पुमान् । संक्लेशगोचरो रागद्वेषमोहविषयः न स्यात् रागादिभिनभिभूयत इत्यर्थः । किं कुर्वन्नित्येवं । नित्यं सन्ततं । स्मरन् ध्यायन् । कथमित्याह-नास्ति । कोऽसौ, सुहृत् । किंविशिष्टोऽन्यः । कस्मात् , धर्मात् धर्म एवोपकर्तेत्यर्थः । तथा पापादन्यो नास्ति शत्रुरधर्म एवापकतेंत्यर्थः । केषां, शरीरिणां देहिनां ॥ ५६ ॥
सल्लेखनां करिष्येऽहं विधिना मारणान्तिकीम्।। • अवश्यमित्यदः शीलं सन्निदध्यात्सदा हृदि ।। ५७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org