________________
सप्तमोध्यायः। दानशीलोपवासार्चाभेदादपि चतुर्विधः ।
स्वधर्मः श्रावकैः कृत्यो भवोच्छित्त्यै यथायथम् ॥५२॥ टीका-कृत्योऽनुष्ठेयः । कोऽसौ, स्वधर्मः आत्मन आचारः। कैः, श्रावकैः देशसंयतैः । किंविशिष्टश्चतुर्विधोऽपि । कस्माद्दानशीलोपवासा भेदात् दानं च शीलं चोपवासश्चार्चा च जिनादिपूजा ताभिर्भेदस्तस्मादपिशब्दान्न केवलं दर्शनव्रतादिभेदादेकादशधेति ग्राह्यं । कथं, यथायथं स्वप्रतिमाचरणाविरो. धेन । किमर्थ, भवोच्छित्त्यै संसारनिरासार्थं ॥ ५१ ॥ इत उत्तरं व्रतरक्षायां यत्नविधानार्थ प्रबन्धेनाभिधत्ते--
प्राणान्तेऽपि न भक्तव्यं गुरुसाक्षिश्रितं व्रतम् ।
प्राणान्तस्तत्क्षणे दुःखं व्रतभङ्गो भवे भवे ।। ५२॥ टीका-न भक्तव्यं न खण्डनीयं श्रावकैः । किं तद्रतं । किंविशिष्टं, श्रितं प्रतिपन्नं । कथं, गुरुसाक्षि गुरवोऽत्र परमेष्टिनो दीक्षागुरवः साधर्मिकमुख्याः स्थानवास्तुदेवताश्च गृह्यन्ते । गुरवः साक्षिणः साक्षाद्रष्टारो यत्र तद्गुरुसाक्षिकमित्यर्थः । क, प्राणान्ते । व्रतभंगाकरणे प्राणनाशे सम्भवत्यपि किं पुनरितरापदि । व्रतभङ्गकरणे दुःखभूयस्त्वं दर्शयति-भवति । कोऽसौ, प्राणान्तः। किं, दुःखं । क्व,तत्क्षणे तस्मिन्नेव समये नोत्तरत्र । व्रतभंगः पुनदुःखं भवति । क्क, भवे भवे जन्मनि जन्मनि । बुद्धिपूर्वकव्रतभंगकरणेन सम्यक्त्वस्यापि विराधनादनन्तसंसारित्वस्यागमे प्रतिपादनात् ॥ ५२ ॥ . शीलवान् महतां मान्यो जगतामेकमण्डनम् ।
स सिद्धः सर्वशीलेषु यःसन्तोषमधिीष्ठतः ॥ ५३ ॥ टीका-भवति । कोऽसौ, शीलवान् शुचिचरित्रः श्रावको यतिर्वा । किंविशिष्टो, मान्यः सत्कृत्यः । केषां, महतामिंद्रादीनां । पुनः किंविशिष्टो, जगतां लोकानामेकमुत्कृष्टं मण्डनमलंकरणं। शीलसिध्धुपायमाह-स भवति । किंविशिष्टः, सिद्धो निष्पन्नः प्रतीतो वा । केषु, सर्वशीलेषु सकलसदाचारेषु । यः किं, योऽधिष्ठितोऽध्यासितः । कं, सन्तोष शर्ति विषयवैतृष्ण्यमित्यर्थः॥५३॥
तत्र न्यञ्चति नो विवेकतपनो नाञ्चत्यविद्यातमी नाप्नोति स्खलितं कृपामृतसरिन्नोदेति दैन्यज्वरः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org